मध्यमाधिकारे प्रत्यब्दशुद्धयध्यायः इदानीं विधूच्चानयनमाह- दिग्भिर्गजेभैश्च हतो दिनौघ क्षेप्यो ध्रुवांशेषु भवेद्विधूच्चम् ॥ २० ॥ । वा० भा०— अत्रोपपत्तिः । कलाषट्कं गतिरिति दशभिदिनैर्भागः | भागा दिगतेः कला- षट्कं विशोघ्य शेषेणानेन ० । ० । ४० | ५३ । ५६ रूपे हृते लब्धा गजेभाः ८८ । अतो विग्भिगंजेभै रित्याद्य पपन्नम् ॥ २० ॥ अथ पातानयनमाह । ताडितः खदहनैर्दिनसङ्घः षट्कषट्कशरहृत् फलमंशा । स्वं ध्रुवे कुमुदिनीपतिपातो राहुमाहुरिह केऽपि तमेव ॥ २१ ॥ वा० भा० - अत्रोपपत्तिः । कल्पराहुभगणानां राशिभिः कुदिनेषु भक्तेषु लब्धं षट्क- षट्कशरा: ५६६ । एभिद्यु गणे भक्ते राश्यादि फलम् । तद्भागादिकं कर्तुं ताडितः खदहनैरित्यु- पपन्नम् । इदानीं प्रकारान्तरेण ग्रहानयनमाह ॥ २१ ॥ लक्षाहताद्दि नगणाच्छशिषट्कशक्र- दिग्भि १०१४६१ र्नगाष्टनगभूतिथिभिः क्रमेण १५१७८७। देवाष्टखाङ्कशशिभि १९०८३३ व रसाग्निवेद- ८१ सिद्धैः २४४३६ खखाब्धिदहनाभ्रयमेन्दुभिश्च १२०३४०० ॥ २२ ॥
भूपाब्धिलोचनरसैः ६२४१६ खखखाभ्रनन्द- नन्दाश्विभि २९९०००० गगनखागजाङ्कनाः ८९८००० । खाभ्राष्टषड्गजधृतिप्रमितै १८८६८०० श्च भक्ताद् भागादिकानि हि फलानि रवे सकाशात् ॥ २३ ॥ विधोः फलं खाश्विगुणं विधेयं ग्रहध्रुवाः स्वस्वफलैः समेताः । ते वा भवन्ति धुचरा क्रमेण भागादिक: स्यात् फलमेव भानुः ||२४|| वा० भा० - स्पष्टम् । अत्रोपपत्तिः । यदि कल्पकुदिनैः कल्पभगणभागा लभ्यन्ते तदाहगणेन किमिति । एवं त्रैराशिके कृते पश्चात् सञ्चारः । यदि भगणभागमिते गुण के कुदिनानि हारस्तदा लक्षमिते किमिति । एवं लक्षगुणकुदिनेभ्य पृथग् भगणभागहतेभ्यो यानि फलानि तानि लक्षाहतस्य दिनगणस्य भागहारा भवन्ति । विधोस्तु लक्षेण विशत्या च गुणितेभ्यः कुदिनेभ्यो हारः साध्यते । गतेबहुत्वादित्युपपन्नम् ॥ २१-२४ ॥ सि० - ११