पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० सिद्धान्तशिरोमणौ ग्रहगणिते तोऽतः कुजर्गात विशोध्य शेषम् । ० । ३ । ३१ | ५३ । अनेन सप्तदशगुणेनैका कला भवति । अत उक्तं धुगणसप्तदशांशविर्वाजितमिति । पूर्वफलेन भागादिनाऽनेन च कलादिना भौमध्रुवको युक्तः कुजो भवति । यतोऽयमहर्गणोऽऋब्दान्ता दूध्वंमतस्तदुत्थं फलं रविमण्डलान्तिके योज्य- मित्युपपन्नम् ।। १७ ।। इदानीं बुधचलानयनमाह - दिनगणः कृतसङ्गणितः पृथग् गुणगुणः खगुणेन्दुभिरुद्धृतः । फलयुतः खलु तेन लवादिना बुधचलं भवति ध्रुवकोऽन्वितः ||१८|| वा० भा० -- स्पष्टार्थम् । अत्रोपपत्तिः । अहर्गणश्चतुर्गुणो भागा भवन्तीति प्रसिद्धम् । अथ ज्ञचलस्य कल्पभगणानां भागान् कृत्वा तेभ्यश्चतुर्गुणान् क्वहान् विशोघ्य शेषस्यास्य १४५६५३८३४२४० द्वादशांशेनानेन १२१३७८१९५२० शेषं क्वहाश्चापतिता जाताः शेषस्थाने द्वादश १२ क्वहस्थाने खगुणेन्दवः १३० । अतः पृथगहर्गणो द्वादशभिर्गुण्य: । पूर्वं चात्र चतुर्गुणोऽहगंण आसीत् । स एव त्रिगुणो द्वादशगुणो भवतीति गुणगुण उक्तः । पृथक् स्थितो यऋतुर्गुणितः स एव त्रिगुणीकृतस्तेन द्वादश- .गुणितो जातः । खगुणेन्दुभिर्भक्तः फलभागः पृथक स्थितश्चतुर्गुणोऽहगंणो युतः कार्यः । एवं ते भागाः प्राग्वत् ध्रुवके क्षेप्या इत्युपपन्नम् ॥ १८ ॥ इदानीं गुरोरानयनमाहू | द्यमणिभिः कुनगैर्युगणो हृतो लवकलाः स्वमृणं ध्रुवके गुरुः । वा० भा० - स्पष्टम् । अत्रोपपत्तिः । किञ्चिन्न्यूना: पञ्च कला गुरोगंतिरिति द्वावशभिदिनेरेको भागः | यन्त्यूनं तेन रूपे हृते एकसप्ततिर्लंभ्यते । अत एकसप्तत्या दिनैरेका कलोनेत्युपपन्नम् ॥ १८३ ॥ अथ शुक्रचलानयनमाह | ऋतुभिरक्षदिनैर्दशसङ्गुणात् फललवाः स्वमृणं ध्रुवके सितः ।। १९ ।। वा० भा० – स्पष्टार्थम् । अत्रोपपत्तिः । अत्र सुखार्थमहर्गणं दशगुणं कृत्वा भागहारद्वयेन फले साधिते । तत्र दशभ्यः षड्भिर्भागे हृते लब्धमेको भागश्चत्वारिंशत् कलाः १ ॥४० । इदं दिनगतेरधिकं जातम् । अस्माद् गत विशोध्य शेषम् ० | ३ | ५२ | १५ | २५ । अनेन दशभ्यो भागे हुते लब्धाः पञ्चपञ्चेन्दवः १५५ । अतोऽहंगंणाद्दशघ्नात् पृथक् षड्भि: पश्चतिथिभिश्च हृताल्लब्धे भागाद्ये धनर्णरूपे फले इत्युपपन्नम् ॥ १९ ॥ इदानीं शनेरानयनमाह । द्विघ्नो दिनौघः पृथगक्षभक्तो लिप्ता विलिप्ता ध्रुवके स्वमार्किः । वा० भा० -- अत्रोपपत्तिः । गतिः कलाद्वयम् । अधोऽवयवात् पञ्चभिदिने विकले च भवत इत्युपपत्तं द्विघ्नो दिनौघ इत्यादि ॥ १९२ ॥