पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे प्रत्यब्दशुद्धयध्यायः अथ चन्द्रानयनमाह । रविगुणैस्तिथिभिः पृथगुष्णगुलवगतः सहितः स हिमयुतिः । स्वनगभागयुतेन दशाहतक्षयदिनोर्वरितेन ७९ कलान्वितः ॥ १६ ॥ वा० भा० -- स रविः पृथग् रविगुणतिथितुल्यैर्भागः सहितो हिमद्य तिर्भवतीति प्रसिद्धा वासना । परमेवं तिथ्यन्ते । अथ चौयिकः कार्य: । तिथ्यन्तादययोमंध्येऽवमशेषम् । तत् सावनम् । तस्य चान्द्रीकरणायानुपातः । यदि त्रिषष्ट्या सावनैश्चतु षष्टितिथयस्तदाऽवमशेषान्तः पातिभिः सावनावयवैः किमिति । पूर्वमवमशेषस्य चतुःषष्टिश्छेद इदानीं गुणस्तुल्यत्वात् तयोर्नाशे कृते त्रिषष्टिरेव हरः । फलं तिथ्यात्मकम् । तद्द्वादशगुणं किल भागाः । पुनः षष्टिगुणं कलाः । एवं द्विसप्ततिर्दशगुणाऽवमशेषस्य गुण स्त्रिषष्टिर्हरः । हरगुणौ नवभरपततौ । हरस्थाने जाता: सप्त ७ गुणस्थानेऽष्टौ दशगुणा: ८० । यो राशिरष्टभिर्गुणितः सप्तभिहियते स स्वसप्तमांशेना- धिकः कृतो भवति । अत उक्त 'स्वनगभागयुतेन दशाहतक्षय दिनोवंरितेन कलान्वितः' इति । एवं ताभिः कलाभिश्च युत औदयिकः शशी स्यादित्युपपन्नम् ।। १६ ।। वा० वा० – रविगुणैस्तिथिभिरिति । अत्रैवं साध्य मानश्चन्द्रस्तिथ्यन्ते भवति । तस्यौदयिकत्वादहर्गणसाधितावमशेषस्य चान्द्रीकरणं क्रियते । अवमशेषस्य चतु:- षष्टिश्छेदः । यदि त्रिषष्टिसावनैश्चतुःषष्टिचान्द्रा लभ्यन्ते तदाऽवमशेषान्तःसावनेन किमिति चतुःषष्टितुल्ययोर्गुणहरयोर्नाशे त्रिषष्टिरेव हरः । द्वादशगुणनमंशकरणाय । पुनः षष्टिगुणं कलीकरणायेति गुणघातो गुणः कृतोऽवमशेषस्य ७२० गुणहरौ नवभिर- पवर्त्य गुणस्थानेऽशीतिः हरस्थाने सप्त । अशीतिसप्तमांशस्तु स्वसप्तमांशाधिकाः दशैव भवन्ति तस्मादुक्तं "स्वनगभागयुतेन दशाहतक्षयदिनोर्वरितेन कलान्वितः” इति । अहारराशेः रूपं हरः कल्प्य: दशानामधो रूपं हरस्तदधः सप्तमांशो धनगतः स्थाप्यः । ततः सूत्रेण । स्वांशोऽधिकोनः ' खलु यत्र तत्र भागानुबन्धे च लवापवाहे । तलस्थहारेण हरन्निहन्यात् स्वांशाधिकोऽनेन तु तेन भागान् || इति खवसूनां सप्तमांश इति स्पष्टम् ॥ १६ ॥ इति वासनावात्तिके प्रत्यब्दशुद्धिः ॥ इदानीं भौमानयमाह । दिनगणार्धमधो गुणसङ्गुणं घुगणसप्तदशांशविवर्जितम् । लवकलादिफलद्वयसंयुतः क्षितिसुतध्रुवकः क्षितिजो भवेत् ।। १७ ।। वा० भा० स्पष्टार्थमिदम् । अत्रोपपत्तिः । दिनगणाधं भागा इति प्रत्यहं त्रिंशत् कला गृहीताः २० । ततः पृथक् त्रिगुणं जातम् 3. । एताः कला: पूर्वकलामिश्रीकृता जाताः 30 । एतत् कुजगतेरधिकम- १. लीलावत्यां भागानु० सूत्रम् |