पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७८ • सिद्धान्तशिरोमणौ ग्रहण शोभनमुक्तम् । अत्र चतुःषष्ट्या गुणनं स्थूलमपि क्षेपे स्वीकृतं स्वल्पान्तरत्वात् । न हि चतुःषष्टिचान्द्राणामेकोऽवमो भवति "रुद्रांशकोनाब्धिरसैः क्षयाह" इति गोले प्रतिपादितत्वात् । इतः प्रभृत्या मध्यमाधिकारान्तं भाष्ये सुगमम् । किन्तु कुत्रचि - द्विशेषार्थंमुच्यते ॥ ११३-१३ ।। इदानीं विशेषमाह । यावत् तिथिभ्योऽभ्यधिकाऽत्र शुद्धिः प्राकृचैत्रतस्तावदहर्गणः स्यात् । प्राक्शुद्धिपूर्वेण तथैव खेटाः प्राग्वर्षजातैर्ध्रुवकैः समेताः' ॥१४॥ वा० भा० – अत्र यावच्चैत्रादितिथिभ्यः शुद्धिर्न शुध्यति तावत् पाश्चात्यचैत्रावेरारभ्य तिथोर्गणयित्वा पूर्ववर्षभवैः शुद्धचन्दपक्षेपदिने रहर्गणः साध्यः | तस्मादागता ग्रहा: पूर्व- वर्षध्रुवकैश्च युताः कार्याः । यतो व्यब्दादेरहर्गणस्यान्यरव्यब्दान्तं यावदुपचय इयमेवात्र वासना ॥ १४ ॥ इदानीं रव्यानयनमाह । दिनगणो निजषष्टिलवोनितो भवति तिग्मरुचिः स लवादिकः । गुणगुणाद् द्युगणादथ भाजिताद् यमयमैः २२ कलिकादिफलान्वितः ॥१५॥ वा० भा० - स्पष्टम् । अत्रोपपत्तिः । अत्र बालावबोधार्थं रूपमहर्गणं कृत्वा ग्रहाणां दिनगतयः साधिताः । र चं मं श उ पा 0 ५९ ८ १३ १० ३४ ० ० १. अत्र लल्लः । बु ३१ २६ २८ ७ ४ गु ० शु १ ३६ ७ ५ ४ ६ ३ ३२ ५९ ४० १० १० १८ ९ ४४ ५३ ४५ २१ २८ ९ ३५ ५६ २० दिनगणः स्वषष्ट्यंशोनो भागा इति प्रत्यहमे कोनषष्टि: कला गृहीताः । शेषावयवेन सत्रिभागः सप्तभिदिनैरेका कला भवति । अतो गुणगुणाद् द्यगणाद्यमयमैर्भाजितादित्युप- पन्नम् ॥ १५ ॥ 0 २ ० २२ ० यावन्न मेषं व्रजति प्रभाकरस्तावन्न पूर्वध्रुवकान् परित्यजेत् । चैत्रे प्रविष्टेऽपि विलोमकर्म वा शुध्द्या विजह्यादगते क्रियं रवौ || भारवानृाहणतच सिद्धः पात्यो भचक्रात् स्वफलानि चैवम् । स्वस्वध्रुवादप्यथ खेचराणां शोध्यानि यत्नात् प्रवदन्ति सन्तः ॥ ० शिष्यधी० ग्र० ग० म० ३५-३६ )