पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे प्रत्यब्दशुद्धयध्यायः न्तादिष्टदिनोदयं यावदहर्गणोऽपेक्षितः । अब्दान्तस्तु दिनादिघटिकान्ते । अत्रायमभि- सन्धिः । यस्मिन् दिने रव्यब्दान्तस्तस्मिन्नर्कोदयकाले कल्याद्यहर्गणः साध्यः । तस्मिन् साध्यमाने लब्धा ये दिनक्षयास्ते तु सौरवर्षाद्यदयं यावत्प्रागानोतचान्द्राणां साव- नानामन्तरे भवन्ति । ततस्तु रव्यब्दान्तार्कोदयादग्रत इष्टदिनोदयं यावद्यदि गण: साध्य ते तदा ये दिनक्षया वर्षाद्यदयकालोनावमशेषयोगेन निरवयवाः सिद्धयन्ति तन्मितमेव चान्द्रसावनानामन्तरं भवति । तयोरहर्गणयोर्यांवद्योगः क्रियते तावत्कल्पा- देरिष्टदिनोदयं यावत् कल्पाद्यगण एव भवति । तत्र रव्यब्दान्ताद्ग्रहानयनं चिकी- र्षितमिति तत्कालीन एवाहर्गणः कर्त्तु युज्यते । यस्मिन् दिने व्यब्दान्तस्तददया- द्रव्यब्दान्तपर्यन्तमन्तरमब्दपघटिकाः । ७७ शुद्धेरवमघटीषु शोधितासु दिनादिघटिका एव भवन्ति । यतो दिनक्षयचान्द्र- घटोनामन्तरं सावनघटिकाः । तस्मात् प्रागुताहर्गणप्रथमखण्डेऽब्दपघटिका योजिता जातोऽहर्गण: सौरवर्षादौ । द्वितीयखण्डे तु दिनादिघटिका: शोध्या एव । अन्यथा - हर्गणखण्डद्वययोगस्य कल्पाद्यहर्गणतुल्यत्वं भवेत् । अतो युक्तमुक्तं भगवता भाष्य- कारेण यस्मिन् दिने व्यब्दान्तो यावतीभिर्घटीभिस्तद्दिने तत्कालादनन्तराद यावद्या घटिकास्ता एव लघ्वहर्गणस्य शेषभूताः । रव्यब्दान्तानन्तरादयत इष्ट- दिनोदयं यावद्ये वारास्त एव लघ्वहर्गणे दिवसा इति । अथावमानयनं सावनीकरणाय । कल्पचान्द्र: कल्पावमास्तदाऽनेन सावन- शुद्धयून चैत्रसितादिगततिथिसङ्घन किमिति दिनक्षयानयनम् । तत्र सञ्चारः । यदि कल्पचान्द्रमिते हरे कल्पावमानि गुणस्तदा चतुःषष्टिमिते हरे को वा गुण इति लब्धो गुणः सावयवः ।१।०।५।७१४२ हरस्तु चतुःषष्टिरेव । तत्रैकखण्डं रूपमितम् ॥ १ ॥ द्वितीयमिदं ।०।५।७।४२ कराभ्रतुरङ्गः सर्वाणितं जातमुपरि रूपम् । अत उक्तं 'पृथक् च समेतः स्वीयकराभ्रतुरङ्गलवेनेति' । इदं चतुःषष्टिच्छेदम् । पूर्वोक्तखण्डद्वयसाधिता- वमयोगेन कल्पादेरिष्टदिनोदयावधिसाधितनिरययवावमतुल्येन भवितव्यमिति सौर- वर्षादिजा अवमघटिका: षष्टिभक्ता अस्मिनवमाद्ये योज्याः । एवं कृतेऽत्र ये निर- ग्रावमा: सिद्धयन्ति त एव लघ्वहर्गणे शोध्या: । सौरवर्षादौ या दिनक्षयघटिकास्ताः षष्ट्या भाज्या दिनानि भवन्ति । एतेषामवमदिनानां यदि चान्द्राः क्रियन्ते चान्द्र- युगणे चेत् क्षिप्यन्ते ततोऽवमानयनेनापि येऽवमास्ते यथोक्तापेक्षितावमा एव भवन्तीति षष्टिभक्तावमघटिकाश्चतुःषष्टिगुणिताश्चान्द्रगणे योज्याः । तत्र त्रिषष्टिगुणिता एव योजिताः। यतोऽवमानयने केवलशुद्धयूनचैत्रादिचान्द्रेभ्य एवावमाः साध्यास्तत्र सावनशुद्धिशोधनादवमघटिका: केवलशुद्धथूनचैत्रादिचान्द्रेष्वधिकाः सन्ति । तस्मा- त्सौरवर्षादिजावमघटकास्त्रिषष्ट्या गुणनीयाः षष्ट्या भाज्याः । तत्र गुणहरौ त्रिभिरप वर्त्य गुणस्थाने एकविंशतिः हरस्थाने विंशतिर्जाताः । यस्तु एकविंशत्या गुण्यते विंशत्या ह्रियते स स्वीयनखांशयुक्त एव भवति । अतः 'क्षेपयुतः कृतषट्कविभक्त' इत्यादि- १. दिनोदिनं इ० क ख पु० । २. भज्येत कख पु०