पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६ सिद्धान्तशिरोमणि ग्रहगणिते गुणा योज्या: । तत्रावमघटिकानां त्रिषष्टिगुंणकार: षष्टिर्भागहारः । तत्र गुणकभागहारौ त्रिभिरप- वर्तितौ । गुणकस्थान एकविंशति- २१ र्भागहारस्थाने विशतिः २० | फलं दिनानि । अत्र हराद् गुणको विशांशाधिकोऽतः 'स्वीयनखांशयुताः क्षयनाड्यः क्षेपदिनानीत्युपपन्नम् ॥ ११३ ॥ इदानीमहर्गणानयनमाह । चैत्रसितादिगतस्तिथिसङ्घः शोधितशुद्धिरधस्तु समेतः ||१२|| स्वीयकराभ्रतुरङ्ग - ७०२ लवेन क्षेपयुतः कृतषट्कविभक्तः । लब्धदिनक्षयवर्जितशेषो रब्युदये द्यगणोदपतेः स्यात् ||१३|| । वा० भा० - - चैत्रादेगंततिथिसञ्चयः शुद्धिरहितस्त्रिष्ट कार्य: । अन्तिमो द्विषतुरङ्गे- ७०२ र्भाज्यः । फलं मध्यस्थे क्षेप्यम् । ततोऽनन्तरानीतानि क्षेपदिनानि तत्र क्षिप्त्वा स राशि- श्चतुःषष्ट्या भाज्य: फलमवमानि । शेषमवमशेषम् । चन्द्रानयनार्थं तत् पृथगनष्टं स्थाप्यम् अव- भैरून: प्रथमो राशिरहर्गण: स्यात् । स चाब्दपत्यादिः । यस्मिन् वारे यावतीषु घटिकास्ता एवा- हर्गणावयवीभूताः । यतस्तासु गतास्वब्दान्तो जातोऽभूत् । तदग्रतो दिनतुल्या वारा इति बुद्धि- मता गणनोयम् । अत्रोपपत्तिः । अत्र चैत्रादिगततिथयः शुद्धचूना अतः कृताः । यतोऽधिमासशेषतिथिभिः सावयवाभिरूनीकृताः सत्यो रव्यब्दान्तादग्रतो गृहीता भवन्ति । रव्यब्वान्तादूध्वमिष्ट- दिनोदयं यावद् युगण: साध्य: । अतोऽब्दानन्तरार्के वयान्तरघटीतुल्येनाहगंणाधोऽवयवेन भवितव्यम् । अब्दान्तस्तु दिनाद्यस्य घटिकान्ते । अतः शुद्धितिथिषु सावयवास्ववमघ- टिका विशोध्य दिनघटिका यथोक्ता भवन्ति । एवं कृतेऽवमानयनं किञ्चित् सान्तरं स्यात् तत् क्षेपदिनानयनेन निरन्तरीकृतम् । अवमानयनेऽनुपात: । यदि कल्पतिथिभिः कल्पावमानि लभ्यन्ते तदाऽऽभिः किमिति । एवमवमानि गुणश्चन्द्रदिनानि हारः । ततः सञ्चारः । यदि चन्द्रदिनहारेणावमानि गुणस्तदा चतुःषष्टचा किमिति । चतुःषष्टया गुणिताना- मवमानां चन्द्रदिनहतानां लब्धं रूपम् । शेषेण शेषमपवर्तितं जातं रूपम् | हारश्चापवर्तितो जातो द्विखशैलमितः७०२ । अयं गततिथीनां गुणश्चतुःषष्टिहँरोऽतः समेतः स्वीयकराभ्रतुरङ्गल- वेनेति सर्वं निरवद्यम् ॥ ११३-१३ ।। वा० वा०—इदानीमहर्गणानयनमाह । शोधनं शुद्धिः। चैत्रादेः सकाशाद् रव्यद्वान्तो यावतीभिः सावयवाभिस्ति- थिभिः शुद्धयति तास्तिथ्य एव सावयवाः शुद्धिशब्देनोच्यन्ते । रव्यब्दान्तादूर्ध्वंमिष्ट- दिनोदयं यावदहर्गणोऽपेक्षितः । तस्माच्चैत्रसितादिगतस्तिथिसङ्घः शोधितशुद्धिः कृतः । ननु केवला शुद्धिरेव चैत्रादिगततिथिभ्यो हातुं युज्यते नावमघटिकोना । अवमघटि- कोनशुद्धौ शोध्यमानायां 'संशोध्यमानं स्वमृणत्वमेति स्वत्वं क्षयः' इत्यनेन केवल- शुद्धयूनचैत्रादितिथिषु क्षयशेषघटिका योजिता भवन्ति तच्चायुक्तमित्यत आह भाष्य- कारः । अतोऽब्दान्तानन्तरार्केर्कोदयान्तरघटीतुल्येनाहगंणावयवेन भवितव्यम् । अब्दा-