पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे प्रत्यब्दशुद्धयध्यायः वा० भा० – स्पष्टार्थमिदम् । अत्रोपपत्तिस्त्रैराशिकेन । यदि कल्पवर्षे: कल्पभगणा लभ्यन्ते तदा गतैः किमिति फलं रविमण्डलान्तिका ग्रहा भवन्ति । ये तत्र प्रहास्ते ध्रुवका कल्पिताः । यदत्र पातमृदूच्चग्रहणं तत् तेषामति मन्दगतित्वाद्वर्षंगणेनैवानयनमुचितमिति सूचितम् ॥ ९ ॥ वा० वा० – इदानीं रव्यब्दान्ते ग्रहानयनं कल्पजचक्रहता इति ॥ ९ ॥ इदानीं चन्द्रध्रुवकं प्रकारान्तरेणाह । यत्तु दिनाद्यधिशेषमिघ्नं १२ स्याद् ध्रुवकस्त्वथवा स लवाद्यः । कैरविणीवनिताजनभर्तुः पीतचकोरमरीचिचयस्य ।। १० ।। वा० भा० – यदधिमासशेषं तिथ्यात्मकं तद्रविगुणं भागात्मको विधुर्भवति । अत्रोपपत्तिः सुगमा । यतो द्वादशगुणास्तिथयो रवीन्द्वोरन्तरभागाः स्युः । तत्र रविः पूर्णम् । अतस्तादृगेव शशीत्युपपन्नम् ॥ १० ॥ वा० वा०—प्रकारान्तरेण चन्द्रध्रुवकमाह यदिति । यदूनाहनाडीविहीनं न कृतं तदधिशेषमेव शेषं स्पष्टम् ।। १० ।। ७५ वा० भा० - इदानों कलिगतादाह । कलेर्गताब्दैरथ वा दिनाद्यं पूर्वं यदुक्तं खलु तत् प्रसाध्यम् । अब्दाधिपस्तत्र सितादिकः स्याद् ध्रुवाश्च युक्ताः कलिवक्त्रखेटैः ।।११।। -स्पष्टम् ॥ ११ ॥ इदानीमहर्गणार्थं क्षेपदिनान्याह । स्वीयनखांशयुताः क्षयनाड्यः क्षेपदिनानि दिवागणसिद्धयै । वा० भा० – पूर्वमानीता ये क्षयाहास्तेषामधो यन्नाडिकाद्यं तत् स्वीर्यावशांशयुतं सद्दि- नाद्यं कल्प्यम् । या घटिकास्तानि दिनानि या विघटिकास्ता घटिकास्तासःमप्यथो ये षष्ट्यं- शास्तानि पानीघपलानीति । किमर्थम् | दिवागणसिद्ध्यै अहगंणसिद्धयर्थम् । अत्रोपपत्तिः । वक्ष्यमाणेऽहर्गणानयने यदवमानयनं तत्र चतुःषष्टिर्भागहारः कृतः । यतश्चान्द्राहाणां चतुःषष्ट्यैकमवमं पतति । अतो रव्यब्दान्ते यदवमशेषं तच्छुड्यूनासु तिथिषु स्वीयकराभ्रतुरङ्ग - ७०२ लवयुतासु सदृशच्छेदं कृत्वा क्षेप्यम् । ततश्चतुःषष्ट्या भागे गृहीते लब्ध- मवमानीत्युचितम् । तत्र रव्यदान्ते यदवमशेषं घटिकात्मकं पूर्व गृहीतमस्ति तत् तु षष्टिच्छेदं तच्चतुःषष्टिच्छेदं कार्यम् । अतस्ता घटिकाश्चतुःषष्ट्या किल गुण्याः षष्ट्या भाज्या: । एवं चतु- षष्टिच्छेदमवमशेषं भवति । अथ चतुःषष्टिस्थाने त्रिषष्टिरेव कृता । किमिति । तत्रोच्यते पूर्व या अधिमासशेषतिथय आगतास्ता एव शुद्धित्वेन ग्रहीतुं युज्यन्ते । यतस्ताभिरूनाश्चैत्राद्यास्तिथयोऽन्दा- न्तादग्रतो गृहीता भवन्ति । अथ च शुद्धितिथयः कार्यान्तरवशादवमघटीभिरूनाः शुद्धित्वेन परि- कल्पिता: । अवमघटकोनया शुद्धया यावच्चैत्राद्या स्तिथ्य ऊनीकृतास्तावच्छेषतिथिष्ववमशेषध- टिका अधिका जाताः । यतः शोध्यमानमृणं धनं स्थाविति । यत एकगुणा युक्ताः । अतस्त्रिषष्टि-