पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणौ ग्रहगणिते सप्तत्तष्टाः शेषं द्वयम् । निजातं यम् ३ || गताधिमासगुणकीभूतास्त्रिशदपि तस्मादयमर्थो निष्पन्नः । द्विगुणगताधिमासेषु त्रिगुणवर्षाणि योज्यानि पञ्चगुणवर्षाणि शोध्यानि । तत्र द्विगुणगताधिमासेषु द्विगुणवर्षाण्येव शोध्यानीत्यागतम् । तत्रापि प्रथममेवान्तरं कृत्वा द्विगुणे क्रियमाणे तादृशमेव भवतीति गताब्दाधिमासान्तरं द्विघ्नमित्युक्तम् । तत्राब्दानां बहुत्वाद्गता धिमासा एव तेभ्यः शोधिताः । तस्माद्वि- परीतशोधनादृणमिदं शोधितम् । स्वषष्टयंशहीनाब्दखाङ्गेन्दुभाग इत्याद्यानीतक्षयाहा अपि शोध्यत्वेनर्णगताः । अस्वयोर्योग इति 'गताब्दाधिमासान्तरं द्विघ्नमाद्यं क्षयाहैर्ग- तैरित्युक्तम् । पुनः सति संभवे सप्ततष्टम् । द्विगुणगताब्दा: सावयवेषु द्विगुणगता- धिमासेषु शोध्या इति शुद्धिर्धनगतैवास्ति । द्विगुणगताधिमासा एव विपरीत- शोधनेन परमृणगता जाताः शुद्धिस्तु धनगतैव । तस्माद् “धनर्णयोरन्तरमेव योगः” इति विशुद्धञ्च शुद्धेरित्युक्तम् । पुनः सप्तभक्तावशिष्टोऽर्कपूर्वोऽब्दपो भवति । अथवा न्यथोच्यते – दिनादिक्षयाहादिदिग्घ्नाब्दयोगे खरामहृते लब्धं गताधि- मासा अवशिष्टं शुद्धिसंज्ञं भवतीति प्रागभिहितम् । तत्र दिनादिस्थानेदपो यदि गृह्यते तदाऽब्दपक्षयाहादिनवघ्नाब्दयोगः खरामैर्हृतो लब्धं गताधिमासाः भवन्ति । शेषञ्च शुद्धिरिति । यतो दिनाद्यं वारेष्वब्दान्वितमब्दप इति । अतो विलोमेन त्रिंशद्गुणितगताधिमासाः शुद्धियुक्ता विधेयास्तेषु नवगुणगताब्दाः पूर्वानीतक्षयाहाद्यं च शोध्यं सप्ततष्टेऽब्दपो भवति । तत्र गुणकावेव पूर्वं सप्ततष्टौ कृत्वा ताभ्यां गुण द्विगुणागताधिमासाः जाता: । नवसु सप्तोर्वरितेषु द्वयमेव गुणो भवतीति द्विगुणा- गताब्दाश्च भवन्ति । तयोरन्तरे क्रियमाणे पूर्ववत् सर्वमुत्पद्यते । एवं सर्वत्र वासना- भिरनेकाभिः शिष्याणां कौतुहलमुत्पादयन्त्यस्मद्विधाः । अत्रास्माभिर्ग्रन्थविस्तरभयान्न लिख्यते ॥ ७ ॥ ७४ इदानोमवयमशेषघटिका आह । यत् त्वधिमासकशेषकनाडीपूर्वमिदं रहितं विहितं सत् । आद्यदिनाद्यघटीभिरथैवं स्युः क्षयशेषभवा घटिका वा ॥ ८ ॥ वा० भा० -- यदधिमासशेषं तिथ्यात्मकं तस्यांधो या घटिकास्ता आद्यदिनाद्यस्य घटीभि- रूना: सत्यः क्षयघटिका भवन्ति । अत्र द्विधाब्दा द्विराम: खरामैश्व भक्ता इत्यादिना ये दिनाद्ये फले उत्पद्येते तन्निराकरणार्थमाद्यग्रहणम् । अत्रोपपत्ति: सुगमा । यतो दिनावमघटिकंक्येनाधिमासशेषस्य घटिकास्ता दिनघटिकोना अवमघटकाः । यदाऽवमघटकोनास्तदा दिनघटिका : स्युरिति भावः ॥ ८ ॥ वा० वा० – अथावमैविनाऽवमशेषघटिकानयनमाह । यत् त्वधिमासकशेषकेति ॥ ८ ॥ इदानीं रव्यब्दान्तग्रहानयनमाह । कल्पजचक्रहतास्तु गताब्दाः कल्पसमाविहृता भगणाद्याः । स्युर्ध्रुवका दिनकृद्भगणान्ते पातमृदूच्चचलोच्चखगानाम् ॥ ९ ॥