पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ सिद्धान्तशिरोमणौ ग्रहगणिते इदानीं दिनगतिसाधनमाह । महीमितादहर्गणात् फलानि यानि तत्कलाः । भवन्ति मध्यमा क्रमान्नभःसदां द्युभुक्तयः ॥ २५ ॥ समा गतिस्तु योजनैर्नभः सदां सदा भवेत् । कलादिकल्पनावशान्मृदुद्रुता च सा स्मृता ॥ २६ ॥ वा० भा० -- अत्रोपपत्तिस्त्रैराशिकेन । पूर्वं गतिर्योजनात्मिका ग्रहाणां तुल्यैवोक्ता । इवानीमतुल्या । सा फलादिकल्पनावशात् || २५-२६ ॥ इदानीमतुल्यत्वे कारणमाह । कक्षा सर्वा अपि दिविषदां चक्रलिप्तङ्किस्ता वृत्ते लव्यो लघुनि महति स्युर्महत्यश्च लिप्ताः । तस्मादेते शशिजभृगुजादित्य भौमेज्यमन्दा मन्दाक्रान्ता इव शशधराद्धान्ति यान्तः क्रमेण ॥ २७ ॥ वा० भा० – यतः सर्वा अपि कक्षाश्चक्रलिप्ताभिरेवाङ्किताः । अतो महति वृत्ते महत्यो लिप्ताः स्युः । लघुनि लध्व्यः । तद्यथा चन्द्रकक्षा सर्वाधिःस्था लघुः । तस्यामेका कला पञ्चदशभिर्योजनेर्भवति । शनेः कक्षा सर्वोपरिस्था सा महती। तस्यामेका कला योजनानां षड्भिः सहस्रैरेकसप्तत्याने ५९२९ र्भवति । योजनं चतुःक्रोशमेव । अतश्चन्द्रात् सकाशादूर्ध्वोर्ध्वस्था बुधशुक्रावयः क्रमेण मन्दाक्रान्ता मन्दगतय इव भान्ति । मन्दाक्रान्ता छन्दोऽपि सूचितम् ॥ २७ ॥ इति सिद्धान्तशिरोमणिवासनाभाष्ये प्रत्यब्दशुद्धिः । इदानीमहगंण दौ विशेषमाह । अभीष्टवारार्थमहर्गणश्चेत् सैको निरेकस्तिथयोऽपि तद्वत् । तदाधिमासावमशेषके च कल्पाधिमासावमयुक्तहीने ॥ १ ॥ वा० भा० - इह किल स्थूलतिथ्यानयने यस्यां तिथौ यो वार आगतः स चेदहणे नागच्छति तदाहर्गणं सैकं निरेकं कृत्वा ग्रहाः साध्या इति ज्योतिविदां संप्रदायो युक्तियुक्त एव । यतोऽहगंणस्य वारो नियामकः । एवं कृते यो विशेष: सोऽभिधीयते । तिथयोऽपि तद्वदित्यादि । अनैतदुक्तं भवति । यदा वाराथं सैकोऽहगंण: कृतस्तदाधिमासावमशेषाभ्यां चन्द्रार्कानयने 'कोट्याहतैरङ्ककृतेन्दु विश्वरित्यादौ द्वादशगुणास्तिथयोऽर्कभागेषु याः क्षेप्यास्ताः सैकाः कृत्वा द्वादशगुणाः क्षेप्याः । यदा निरेकोऽहर्गणः कृतस्तदा निरेकाः कृत्वा । तथा यदि सैकोऽहगण- स्तदाधिमासशेषं कल्पाधिमासैर्युतं कार्यम् । अवमैरवमशेषञ्च । यतः सैकासु तिथिषु सैकोऽहर्गणो निरकासु प्रतिदिनमधिमासशेषस्याधिमास रुपचयोऽव मैरवमशेषस्यातो निरेकः । तथा युक्तमुक्तम् ॥ १ ॥