सिद्धान्तशिरोमणौ ग्रहगणिते वा० भा० -- स्पष्टार्थम् । अत्रोपपत्ति: । एकस्मिन् रविवर्षे सावनाहा: प्राक् प्रतिपादिताः । तेभ्य: पञ्चषष्ट्य- धिकं शतत्रयं ३६५ प्रोह्य शेषं दिनस्थाने पूर्ण पञ्चदश नाड्य स्त्रिशत् पलानि तथा सार्थानि द्वाविंशतिविपलानि ● । १५ । ३० | २२ । ३० एतदष्टभिः सर्वाणितं जातम् ४ । अतो- २ ३ अनुपातः । यद्यष्टभिर्वषैरेतावद्दिनाद्यं तदा कल्पगतेः किमिति । फलं विनाद्यम् । तदनष्टं संस्था- प्यम् । ततो गताब्दैर्युतं सदब्दपतिः स्यादिति यदुक्तं तदतः । यतः पञ्चषष्ट्यधिकशतत्रये सप्तभिर्भक्त एकोऽवशिष्यते। अत एकगुणाब्दसंख्या तस्मिन् दिनाद्ये निक्षिप्ता । तस्मिन् सप्ततष्टे- ऽर्कायोऽब्वपतिः । यतो यस्मिन् वारेऽब्दादिः सोऽब्दपतिः स्यादित्युपपन्नम् ॥ १ ॥ ६८ वा० वा० – प्रत्यब्दशुद्धया ग्रहानयनमारभते । तत्राब्दपानयनमाह अधोध- स्त्रिधा इति । सौरवर्षान्ते यः सावयवो वारः सोऽब्दप इत्युच्यते । अहर्गणाद्ये आनीयेते । 'मासाब्ददिनसंख्याप्तं द्वित्रिघ्नं रूपसंयुतम् । सप्तोद्धृतावशिष्टौ च विज्ञेयौ मासवर्षपौ । इत्यादिना मासाब्दपती तौ फलादेशायोपयुज्येते । अत्रानीयमानो यमब्दपः स तु वार्षिकग्रहानयनाद्युपयोगाय । मन्दादधः कक्षाक्रमेण कालहोरेशा उक्ताः सौरे । मन्दादधः क्रमेण चतुर्थाश्च वारा उक्ताः । कथमत्राब्दपो ज्ञातव्य इत्यत्राह भास्करा- दिति । कल्पादौ रविरेवाब्दपः । अत्राचार्येण वर्षेशमासेशहोरेशा नोक्ता दिनेश उक्त- स्तेनैव क्रमेणाब्दपो भविष्यतीति भाष्येऽभिहितं सावयवो वार इति । अत्रवासना—तत्रैकवर्षसावनेषु सप्ततष्टेषु शेषं दिनाद्यम् १||१५||३०|२२||३०|| सौरे ॥१॥१५॥३१॥२४॥ कल्पादित आनीयमाने बह्वन्तरं पतति । येन पक्षेण दृग्ग- णितैक्यं भवति स एव पक्षोऽङ्गीकार्यः । भवतु योऽपि कोप्यागमो ग्रहगणिते इति - कर्त्तव्यतायामस्माभिः कौशलं दर्शयितव्यम् इति वदंतो भाष्यकारस्य न कोऽपि दोषः । प्रकृतमनुरामः ॥१॥१५||३०||२२||३०|| अत्राऽनुपातः । एकेन वर्षेणेदं तदेष्टवर्षैः किमिति सावयेवनेष्टवर्षाणि गुणनीयानि । एवं क्रियमाणे शिष्याः क्लिश्येरन्निति सुगमोपायः कृतः । अत्र कल्पितमिष्टम् ||१५||३०||२२||३०|| इष्टोऽनेन गुणेन निघ्नो गुण्य इति यावन्तोऽब्दास्तावन्तो वारा इत्युक्तम् । अथेष्टघ्नगुण्ययुक्तास्ते कर्त्तव्याः । एकेन भाज्याः । अत्र सञ्चारः । यद्यनेन हरेणाऽ यं गुण ०||१५||३०||२२||३०|| स्तदा वसुमितेन किमिति लब्धो वाराद्यो गुणः ||२||४||३|| अयं स्वरूपेणैव खण्डत्रयात्मकः । ६ ““गुण्यस्त्वधोऽधो गुणखण्डतुल्यस्तैः खण्डकैः सद्गुणितो युतः' इति प्रकारेण ‘अधोऽधस्त्रिधा कल्पयाताब्दवृन्दात् कराभ्यां कृतैः पावकैः संगुणादित्युक्तम्' । भुजङ्गं- र्भागे हृते दिनाद्यं लभ्यते ॥ १ ॥ १. सूर्यसिद्धा० मध्यमा०५४३लो० । २. गणित इति साधु पाठः । ३. सुगमनोपाय इ० गपु० | ४. खंडययात्मक० ग पु० । ५ लीला० गुणने २ सूत्रम् । ६. तै ख इ० क ख ग पु० ।
पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/११३
दिखावट