पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कक्षाध्यायः ६७ अत्रोपपत्तिः । दिनगतियोजनेरहगणे गुणिते गतयोजनानि भवन्तीति सुगमम् । अत्र सुखार्थं गोऽक्षघृतीन्दुभि: ११८५९ संपूर्णैरहणो गुणित । सोऽधिको जातः । यदधिकं तच्छोध्यम् । तस्याधिकस्य ज्ञानार्थमुपाय: । परमोऽहगंग: कुदिनतुल्यः । तेन गुणकेन गुण्यः । एवं गोऽक्ष- धृतोदुनिघ्नः सन् खकक्षातोऽधिको भवति । तस्मात् खकक्षां विशोध्य शेषेणानुपातः । यदि कुदिन तुल्येनाहगणे नै तावदधिकं भवति तदेष्टेनाहगणेन किमिति । अत्र कुदिनानां तस्य शेषस्य च पञ्चपञ्चयुग वेदरयुतगुणिते - ४४५५०००० रपवर्त कृते सति शेषस्थाने क्वक्षिनवाका उत्पन्नाः । कुविनस्थाने नन्देन्दु वेदेषुहुताशाः । एवं त्रैराशिकेन यल्लभ्यते तेन स्थूलगतिगुणितेऽहगंणे वजते गतयोजनानि भवन्ति । सर्वेषां ग्रहाणां तान्येव । गतेस्तुल्यत्वात् । अथ ग्रहार्थमनुपात: । यदि कक्षातुल्यैर्गतयोजनेरेको भगणस्तदैभिः किमिति | फलं गलभगणाद्याः सर्वे ग्रहा भवन्तीत्यु- पपन्नम् ।। ७-७३ ।। इवानीं विशेषमाह | ग्रहस्य कक्षैव हि तुङ्गपातयोः पृथक् च कल्प्याऽत्र तदीयसिद्धये ।।८।। अर्कस्य कक्षैव सितज्ञयोः सा ज्ञेया तयोरानयनार्थमेव । उक्ते तयोर्ये चलतुङ्गकक्षे तत्रैव तौ च भ्रमतोऽर्कगत्या ।। ९ ।। वा० भा०— अत्रोच्चस्य पातस्य च या कक्षाऽऽगच्छति सा तयोरानयनार्थमेव कल्प्या अन्यथा या ग्रहस्य कक्षा सेव तयोरपि । यतो ग्रहकक्षाया उच्चप्रदेशस्योच्चव्यपवेशः । यत्र च विमण्डलेन सह संपातस्तस्य प्रदेशस्य पातसंज्ञेति गोले सम्यक् प्रतिपादितमस्ति । तथा बुध- शुक्रोरत्र ये अर्ककक्षातुल्यकक्षे आगच्छतस्ते तयोरानयनार्थमेव । किन्तु तयोर्ये चलकक्षे तत्रैव तो च भ्रमतः । परमर्कंगत्या । एतदुक्तं भवति । भूमध्यादकं प्रति नीतं सूत्रं लगति तत्र बुधो यत्र शुक्रचलकक्षायां लगति तत्र शुक्रो भ्रमतीत्यर्थः ॥ ७२-६ ॥ वलकक्षायां इति कक्षाप्रकारेण ग्रहानयनाध्यायः । तत्रादौ सावनदिनाद्यमाह । अथ प्रत्यब्दशुद्धिः । अधोऽधस्त्रिधा कल्पयाताब्दवृन्दात् कराभ्यां कृतैः पावकैः ३ भुजङ्गैरवाप्तं फलं स्याद्दिनाद्यं तदब्दान्वितं भास्करादब्दपः स्यात्' ॥१॥ १. अत्र वापूदेवः । “समास्त्रिनिघ्न्यः खभुजङ्गभक्ता स्वदिग्लवोना: सहिता गताब्दः । चतुर्विभक्ताश्च भवेद्दिनाद्यं तदब्दयुग्मास्करतोऽब्दप: स्यात् ॥” सङ्गुणाच्च ।