पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी ग्रहगणिते इदानीमेवं सिद्धे रवीन्दुकक्षे भकक्षाञ्चाह । सार्धाद्रिगोमनुसुराब्धिमितार्ककक्षा ४३३१४९७२ चान्द्री सहस्रगुणिता जिनरामसंख्या ३२४००० । अभ्रेष्विभाङ्कगजकुञ्जरगोऽक्षपक्षाः २५९८८९८५० कक्षां गृणन्ति गणका भगणस्य चेमाम् ।। ५ ।। वा० भा० – रवेः कक्षा ४३३१४९७३ । चान्द्रकक्षा ३२४००० । भकक्षा २५९८८- ९८५० । अत्राकंकक्षातो भकक्षा षष्टिगुणा । "अर्को भषष्ट्यंश" इत्यागमप्रामाण्येनाङ्गीकृता । एवमन्येषामपि ग्रहाणां कार्याः ।। ५ ।। इदानों ग्रहगतियोजनान्याह । कल्पोद्भवैः क्षितिदिनैर्गगनस्य कक्षा भक्ता भवेद्दि नगतिर्गगनेचरस्य । पादोनगोऽक्षधृतिभूमितयोजननि ११८५८ । ४५ खेटा व्रजन्त्यनुदिनं निजवर्त्मनीमे ॥ ६ ॥ वा० भा० - अत्रोपपत्तिः । यदि कुदिनंः खकक्षामितयोजननि गच्छन्ति तर्दकेन किमिति । फलं दिनगतियोजनानि । तानि च स्थूलत्वेन तावत् पादोनगोऽक्षघृतिभूमितानि स्युः ॥ ६ ॥ इदानीं ग्रहानयनमाह । अहर्गणात् क्वचिनवाङ्क - ९९२१ निघ्नानवेन्दुवेदेषुहुताश- ३५४१९ लब्ध्या । अहर्गणो गोऽक्षधृतीन्दु ११८५९ निघ्नो विवर्जितः स्युर्गतयोजनानि ॥७॥ स्वया स्वया तानि पृथक् च कक्षया हृतानि वा स्युर्भगणादिका ग्रहाः । वा० भा० – अहर्गणे भूनेत्र नवनन्दगुणे ९९२१ नवशशि श्रुतिबाणाग्निभिभक्त ३५४१९ यल्लब्धं तेन विर्वाजतः कार्य: । कः । नन्देन्द्रियधृतीन्दु ११८५९ गुणोऽहगंणः । एवं गतयोजनानि स्पुः । तेभ्यः पृथक् पृथक् स्वया स्वया कक्षया भाजितेभ्यो भगणाद्या ग्रहा लभ्यन्ते । १. शेषाणां ग्रहाणामपि कक्षाप्रमाणानि श्रीपतिनोक्तानि । "अष्ट्य ङ्कषण्मनुगजा: ८१४६९९६ क्षितिनन्दनस्य ज्ञस्येशदन्तकृतखेन्दुमिता - १०४३२११ ऽथ सूरेः । रूपाश्विनागयुग शैलगुणेन्दबाणा: ५१३७४८२१ खाग्न्यङ्गसागर रसोत्कृतयः २६६४६३० सितस्य ॥ भूधराहिनगनागर सर्तुक्ष्माघराश्विशशिनः १२७६६८७८७ शनिकक्षा ।” सि० शे० मध्यमा० ६४-६५ श्लो० ।