पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ सिद्धान्तशिरोमणौ ग्रहगणिते इदानीमहगंणादपि कल्पगतमाह । अभिमतद्युगणादवमैर्हतात् दिनगणः स भवेत् तिथिसञ्चयः विधुदिनाप्तगताधिकमासकैः क्षितिदिनाप्तगतावमसंयुतः । पृथगतोऽधिकमाससमाहतात् ||१६|| कृतदिनै रहितोऽर्कदिनोच्चयः । भवति मासगणः खगुणो३० द्धृतो रवि १२हृतः स च कल्पगताः समाः ।।१७।। वा० भा०- स्पष्टार्थमिदम् । अत्रोपपत्तिस्त्रैराशिकाभ्याम् । अहंगंणानयनाद्विलोमप्रकारेण कल्पगतानयनं सुग- मम् ॥ १६-१७ ।। इदानों कलिगतादप्यहगंणादिकमाह । कलिगतादथ वा दिनसञ्चयो दिनपतिर्भृगुजप्रभृतिस्तदा । कलिमुखध्रुवकेण समन्वितो भवति तद्युगणोद्भवखेचरः ॥ १८ ॥ वा० भा० - - अत्र कलिगताहर्गणेऽयं विशेषः । शुक्राद्यो वारो गणनीयः । अतः कल्प- "गताहर्गणात् कलिमुखे शुक्रवारो भवति । तत्र च ये ग्रहास्ते ध्रुवसंज्ञाः कल्पिता: । तद्धुगणभवः खेचरइच कलि मुखध्रुवकेण समन्वितः कार्य इत्यत्र वासनाऽपि सुगमा ॥ १८ ॥ इदानीं कलिमुखग्रहानाह । खाद्रिरामाग्नयः ३३७० कग्निरामाङ्कका ९३३१ वेदवेदाङ्कचन्द्रा १९४४ विलिप्ताः क्रमात् । षड्रसाङ्गाब्धयो - ४६६६ऽङ्गाभ्रवेदाब्धयो ४४०६ वेदषट्काभ्रभूपाभ्रभूसंमिताः १०१६०६४ ।। १९ ।। वेदचन्द्र द्विवेदाब्धिनागाः ८४४२१४ कर- द्वयब्धिवेदाब्धिशैला ७४४४२२ भवेयुः कुजात् । द्वापरान्तध्र वाश्चक्रशुद्धास्तथा सूर्यतुङ्गेन्दुतुङ्गेन्दुपातोद्भवाः ॥ २० ॥ वा० भा- - कुजादीनां सर्वेषां ध्रुवाश्चक्रशुद्धाः पठिता लाघवार्थम् । मिदम् ।।१९ - २०।। १. श्रीमत्पण्डितशिरोमणिबापूदेवानुकम्पितश्चन्द्रदेवः । "तिथ्यर्क्षयुगवेदाब्धिरामाङ्गनखभूधराः ७२०६३४४४२७१५ । घुगणेन कलेयुंक्ताः कल्पादेर्चुगणो भवेत् || " स्पष्टायं-