पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे ग्रहानयनाध्यायः त एव सूर्यसावन युपिण्डतोऽनुपातजाः । तथातथा युतोनिता भवन्ति तेऽथवा ग्रहाः ॥ ११ ॥ ६१ वा० भा० – अत्राधिमा सावन्दुमाका इति पूर्वशब्दोपा वानादन्येऽप्यभोष्टा राशयो यथायथा परस्परं युतोनिताः सन्त इष्टग्रहभगणसमा भवन्तीति पूर्व संप्रधायं तानेत्र राशीन् भग- णान् प्रकल्प्याहगंणादनुपातेन फलानि साध्यानि । तेषां फलानां तथातथा योगे वियोगे च कृते ग्रहः स्यादिति । तद्यथा । "इन्दु मण्डलगुणेन्दु संगुणमध्नचक्र विवरेऽधिमासका: ।” इति चन्द्रभगणानां त्रयोदशगुणाकंभगणानां चान्तरे यद्यधिमासा भवन्ति तदा त्रयोदशगु णाकंभगणाधिमासयोगे चन्द्रभगणा: स्युरित्यर्थाज्जातम् । अतोऽहगंणादधिमासग्रहमानीय त्रयोदश- गुणोऽकंस्तेनाधिकश्चन्द्र स्यादित्येवमादीनि प्रकारान्तरशतान्युत्पद्यन्ते ॥ १०-११ ॥ वा० वा० — अत्राध्यायान्तमेकादवृत्तनि भाष्ये स्पष्टानि ||१०-२०|| इति श्रीकृष्णदैवज्ञात्मजनृसिंहकृतौ ग्रहानयनाध्यायः ॥ इदानी मस्योदाहरणभूतानि प्रकारान्तराणि दर्शयन्नाह | द्विचक्रयोगजो ग्रहो वियोगजेन युग्वियुक् । दलीकृतौ च तौ क्रमादमन्दमन्दगामिनौ ॥ १२ ॥ द्विपर्ययान्तरोद्भवग्रहेण वर्जितो द्रुतः । स मन्दगोऽथ मन्दगो युतो भवेदमन्दगः ॥ १३ ॥ वा० भा० -- अत्राद्यानयनस्योपपत्तिः सङ्क्रमगणितेन । द्वितीयस्यातिसुगमा ॥ १२-१३॥ पुनः प्रकारान्तरेणाह | केन्द्रोच्चयोश्चञ्चलयोर्वियोगे योगेऽथवा स्यान्मृदुनोः प्रसाध्यः । साध्यस्य चक्र र्गुणितः प्रसिद्धो भक्तो निजैः स्यादथ वा प्रसाध्यः ||१४|| वा० भा० - अत्रोपपत्तिः । शोघ्रोच्चाद् ग्रहे शोधिते शीघ्रकेन्द्रं भवति । शीघ्रकेन्द्रे शोधिते ग्रहो भवतीति किमाश्चर्यम् । मन्दोच्चोनो ग्रहो मन्दकेन्द्रम् । तत् केद्रं मन्दोच्चेन युतं ग्रहो भवतीति कि चित्रम् | यदि सिद्धग्रहस्य युगभगणे: सिद्धग्रहो लभ्यते तवा साध्यभगणे: किमिति फलं साध्यग्रहः स्यादित्युपपन्नम् ॥ १४ ॥ अहंगंणान्मष्यमग्रहमानीयेदानीं मध्यमग्रहावहगंणमाह । साग्रात् सचक्राच्च खगात् क्वहघ्नात् तत्कल्पचक्राप्तमहर्गणः स्यात् । निरग्रचक्रादपि कुट्टकेन बच्येऽग्रतोऽग्राच तथाग्रयोगात् ।। १५ ।। वा० भा० - ग्रहस्य भगणराशिभागकलाविकला अन्ते विकलाशेषञ्च कुदिनैः संगुण्य स्वच्छे- देन विभज्योपर्युपरि निक्षिपेत् । तद्यथा । भगणादिग्रहे विकलाशेषावधि कल्पकु दिनगुणे विकलाशेष- स्थाने कुदिनविभज्य विकलास्थाने फलं प्रक्षिप्य तत्र षष्ट्या ६० विभज्य कलास्थाने निक्षिप्येवं भगणान्तं यावत् । तत्र कल्पभगणे हृतेऽहर्गंणः स्यात् । अत्रोपपत्तिविलोमगणितेन । तथा निरग्रचक्रादपि ग्रहात् तथा केवलादग्रादपि तथा शेषयोः शेषाणां वा योगादहर्गणानयनमग्रत इति प्रश्नाध्याये कुट्टकविधिना वक्ष्ये ॥ १५ ॥