सामग्री पर जाएँ

पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० सिद्धान्तशिरोमणौ ग्रहगणिते विवर्जितो विकर्त्तनो गृहादिको गृहादिकाः । ग्रहा भवन्ति वा बुधैर्विचिन्त्यमन्यदप्यतः ॥ ९ ॥ वा० भा० - अहंगंणाद्ग्रहस्य कल्पसावनदिनैर्गुणितात् खाभ्रबाणगिरिरामख त्रिगोशक्रवि- शवविहृताद्यत् फलं राश्यादि तेन राश्यादिना राश्यादिको रविरूनोऽभीष्टो ग्रहः स्यात् । अस्मादा- नयनप्रकाराबुधैरन्यदपि प्रकारान्तरं विचिन्त्यम् । अत्रोपपत्तिः । भगणैरूना भभ्रमा ग्रहसावनदिवसा भवन्ति । तैः सावनैरूनास्ते भभ्रमा गृहभगणा भवन्ति । अतोऽहगंणावग्रहवदनुपातेन गतभभ्रमान् ग्रहसावनक्विसांश्चानीय तैः सावनैस्ते भभ्रमा वर्जिता यदि क्रियन्ते तदा भगणादिको ग्रहो भवतीत्युपायो दृष्टः । अथ च यो भगणायो रविरागत: सोऽहगंणतुल्यंभंगणैर्युतो यावत् क्रियते तावद्गतभभ्रमा भवन्ति । यतः कुदिनानां रवि. भगणानाञ्च योगे भभ्रमाः । अत्र भगणानां प्रयोजनाभावाद्राश्याविरेव रविभंभ्रमावयवीभूतो गृहीतः । एवं ग्रहगतसावनानयनेऽपि | सत्र ग्रहकल्पसावनेर हगणे गुणिते कुदिनंहृते भगणाविकं किल फलं भवति । तद्द्वादशगुणितं राश्यादिकं स्यात् । अतः कुविनानि द्वादशभिरपर्वततानि भागहारः कृतः । लब्धराशिषु द्वादशतष्टेषु भगणा लभ्यन्ते ते प्रयोजनाभावात् त्याज्या: । अत उक्तम् । 'आप्त राशिभिविवजितो विकर्तन इत्यादि जातं सर्वमुपपन्नम् ॥ ८-९ ॥ वा० वा०—अथ रव्यहर्गणाभ्यां ग्रहानयनमाह अर्क सावनदिवागणो हत इति । रविभगणसावनयोगे' भभ्रमा इत्युक्तम् । 'भभ्रमास्तु भगविवर्जिता यस्य तस्य कुदिनानि तानि च ' इति कल्पे ग्रहसावनान्यपि वेद्यानि । तत इष्टग्रहेष्टसावनज्ञानं त्रैराशिकेन । कल्परविसावनैः कल्पग्रहसावनास्तदेष्टार्कसावनगणेन किमिति । एतानि ग्रहेष्टसावनानीष्टभभ्रमेभ्यः शोध्यानि । तत्रेष्टभभ्रमो नामेष्टभगणाद्यरवेरिष्टरविसाव च योगः इष्टराश्याद्यो रविस्तु भभ्रमावयवः | तस्मादिष्टभभ्रमाणां पञ्चावयवाः । तत्र पूर्वोक्तानुपातेन ग्रहेष्टसावनेषु लब्धेषु यच्छेषं तद्द्वादशगुणं रविकल्पसावनहृतं सद्ये राशयस्ते रविराशिभ्य एव शोध्याः । अत्र राश्यादिग्रहाणामेव प्रयोजनादनुपातेन सिद्धो यो ग्रहकल्पसावनरवीष्टसावनघातः स एव द्वादशगुणः कार्य: रविकल्पसावनैर्भाज्यः । तत्र गुणहरौ गुणेनापवर्त्य हर एव खाभ्रवाणेति पठितः । लब्धं राश्यादि चतुर्धा । तद्राश्याद्यरवे: शोधितं जाताः राश्यादिकाः ग्रहाः ॥ ८-९ ॥ इवानीमानयनप्रकारान्तराणामुपपत्तिमाह । यथायथाऽधिमासकावमेन्दुमासपूर्वकाः । परस्परं युतोनिता भवन्ति खेटपर्ययाः ।। १० ।। १. योगो क ख ग पु०