पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६३, मं १ ] दशमं मण्डलम् उद्गीथ० गोसहसमाप्त्युपायप्रदर्शनेन परितुष्टस्य आशीर्वचनमेतत् । सहस्रदाः प्राप्त्युपायप्रदर्शनेन गोसहस्रस्य दाता ग्रामणीः पुत्रादिसङ्घातस्य दानेन नेता मा रिषत् मा हिंसिष्ट केनचित् मनुः मम पिता । कि अस्य मनोरुपदेश्यत्वेन सम्बन्धिनी दक्षिणा अद्भिरस्सनोपयोज्या गोसहस्रलक्षणा सूर्येण सह यतमाना दातुः फलप्रदानाय सङ्गच्छमाना सूर्यप्रासिलक्षणं फलं प्रयच्छन्ती सतीत्यर्थः एतु मां प्रति स्वत्वेन आगच्छतु । किञ्च सावर्णैः सवर्ण एव सावर्णि. । सावण्यस्य मनोः अस्मत्पितुः आयुः जीवितम् देवाः सर्वे प्र तिरन्तु प्रवर्धयन्तु, यस्मिन् मनौ सति, यम्य मनोः प्रसादादित्यर्थः, अश्रान्ताः उपार्जनखेदेन अखिन्ना सन्तः वयम् असनाम सम्भक्तवन्तः घयं लब्धवन्तः इत्यर्थः, वाजम् असं बलं सङ्घात वा गोसहसलक्षणम् ॥ ११ ॥ बेङ्कट० सहस्रस्य दाताऽयं गवां ग्रामस्य नेता मनुः मा रिष्टो भवतु । सूर्येण च अस्य दक्षिणा गच्छन्ती सङ्गच्छताम् । परस्मॅिल्लोके तस्यास्य सवर्णपुत्रस्य मनोः देवाः वर्धयन्तु जीवितम्, यस्मिन् अश्रान्ता चयं भजेमहि अनं गोलक्षणमिति ॥ ११ ॥ "इति अष्टमाष्टके द्वितीयाध्याये द्वितीयो वर्गः ॥ [ ६३ ] गय. हात ऋषिः । विश्व देवा देवता, पञ्चदशीषोडश्योः पथ्या स्वस्तिः । जगती छन्दः, पञ्चदशी त्रिष्टुब्बा, अन्त्ये त्रिष्टुभौ । ३५२५ }] । परा॒वतो ये दिधि॑पन्त॒ आप्य॒ मनु॑प्रीतासो जनि॑मा वि॒वस्व॑तः । य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवन्तु नः ॥ पु॒रा॒ऽवतैः । ये । दिधि॑षन्ते । आप्य॑म् | मनु॑ऽप्रतासः । जनि॑म । वि॒वस्व॑तः । य॒याते॑ः । ये । न॒हु॒थ्य॑स्य । ब॒र्हिषि॑ । दे॒वाः । आस॑ते । ते । अधि॑ । ब्रुव॒न्तु । नः॒ः ॥ १ ॥ उद्गीध० उत्तरे सूक्के द्वे 'परावतः', 'क्या देवानाम्' इत्येते सप्तदशके वैश्वदेवे गयो परावतः दूरात्, भागत्येति शेष ये देवाः दिधिषन्ते धारयन्ति कुर्वन्ति अस्माभिः सह आप्यम् आपित्वं स्तुत्यत्त्रस्तोतृत्वेज्यत्वयष्टृस्वलक्षणम् मनुप्रीतासः मनुना तर्पिताः येषां च देवानाम् जनिम जन्म विवस्वतः आदित्यस्य सकाशात् स्थितिकरणद्वारेण, ये च देवाः ययाते: राज्ञः नहुष्यस्य नहुपपुत्रस्य बर्हिषि वेदिस्तरणे आसते यागाङ्गत्वेन तिष्ठन्ति ते देवाः अधि ब्रुवन्तु नः 'अधीत्युपरिभावम् ऐश्वर्य वा' ( या १, ३ ) । उपरि भूत्वा वदन्तु मादिशन्तु भस्मान् इदं दृष्टाहटफलं शुभं कर्म कुरुतेति इंश्वरा चन्त्विस्यर्थः ॥ १ ॥ भूत्वा अस्मानू १. सावर्णः वि सावण्यैः वि अ २. नाम्ति वि. ५-५. नाहित मूको ६. सकाशातू यजमानस्य सकाशाय विका हिमूको. ३. च्छन्ति वि. म. ४. अपरा वि ७. नास्ति मूको, ८. दन्त