पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६१, मं २६ ] दशमं मण्डलम् ३५१९ गच्छन्ति उदाराणाम् इदं गृहाण इदं गृहाण इत्यादिका उदिताः, प्राची इव दिक्, प्रयच्छन्ति । उदारः सूनृतायै वाचे देवानां स्तुतिं श्रुत्वा प्रयच्छतीति ॥ २५ ॥ स गृ॑णा॒ानो अ॒द्भिर्दे॒ववा॒ानिति॑ सु॒बन्धुर्नम॑सा सूक्तैः । वर्ध॑दु॒क्थैर्वयो॑भि॒रा हि नूनं व्यध्वे॑ति॒ पय॑स उ॒स्रिया॑याः ॥ २६ ॥ सः । गृ॒णा॒ान । अ॒त्ऽभिः॑ । दे॒वऽवा॑न् । इति॑ । सु॒ऽवन्धु॑ः । नम॑सा । सु॒ऽउ॒क्तैः । वर्ध॑त् । उ॒क्थैः । वच॑ऽभिः । आ । हि । नू॒न॒म् । वि । अध्वा॑ । ए॒ति॒ । पर्य॑सः । उ॒स्रिया॑याः ॥ बेङ्कट० सः वरुणः स्तूयमानः अद्भिः देवताभिस्तद्वान् इति शोभनबन्धुः नमस्कारेण सूतैः च सोऽयं वर्धताम्' । उक्थैः उच्यमानैः आ गच्छतु । इदानीम् । तस्य यागार्थं गोपयसः भार्गः वि एति स्तनाग्राणि क्षरन्तीति ॥ २६ ॥ त ऊ॒ षु णो॑ म॒हो य॑जत्रा भू॒त दे॑वास ऊ॒तये॑ स॒जोपा॑ः । ये वा अन॑यता वि॒यन्तो॒ ये स्था न॑च॒वारो अमृ॑राः ॥ २७ ॥ ते । जं॑ इति॑ । सु । न॒ः । म॒हः । य॒ज॒नाः । भू॒त । दे॒वास॒ः । ऊ॒तये॑ । स॒ऽजजो॒षः॑ः । ये । वाजा॑न् । अन॑यत । त्रि॒ऽयन्त॑ः । ये । स्थ । नि॒ऽचे॒तार॑ः | अम॑राः ॥ २७ ॥ वेङ्कट० ते अस्माकम् सुप्डु महते हे यष्टव्या. ! भक्त देवाः ! रक्षणाय सद्गताः, ये च यूयं मह्यं पशुन् अनयत सत्राद् विविधं गच्छन्तः अङ्गिरसः, ये च भवथ निचेतारः विवेत्तारोऽथांनाम् अमूढाः इति अङ्गिरस आज्ञास्त इति ॥ २७ ॥ " इति अष्टमाष्टके प्रथमाध्याये त्रिंशो वर्गः ॥ व्याख्यत् प्रथममध्यायम् अष्टमस्याष्टकस्य सः । अज्ञान यो जहुकुले लौहित्यो माधवाह्वयः ॥ इति बेङ्कटमाधवाचार्यविरचिते ऋषसंहिताव्याख्याने अष्टमाइष्टके प्रथमोऽध्यायः समाप्त. ॥ इति ॠग्वेदे सभाप्ये अष्टमाटके प्रथमोऽध्यायः ॥ १. तार वि' म'. २. उकेर दि म', ३. तदा विभ ४.४. मारित मूको