पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६१, मैं १३ ] दशमं मण्डलम् तदन्न्व॑स्य॒ परि॒षदा॑नो अग्मन् पु॒रू सद॑न्तो नाप॒दं विभत्सन् । वि शु॒ष्ण॑स्य॒ संग्र॑थितम॒न॒र्वा वि॒दत् पु॑रुप्रजा॒तस्य॒ गुहा यत् ॥ १३ ॥ । तत् । इत् । नु । अ॒स्य॒ । प॒रि॒ऽसद्वा॑नः । अ॒ग्म॒न् । पुरु | सद॑न्तः । नास॒दम् । वि॒भि॒त्स॒न् । वि । शु॒ष्ण॑स्य । समू॒ऽग्र॒थितम् । अ॒न॒र्वा । वि॒दत् । पुरु॒ऽप्र॒जातस्य॑ | गुहा॑ | यत् ॥ १३ ॥ वेङ्कट० तत्रैव शीघ्रम् अस्य इन्द्रस्य परिचारका रश्मयः प्रकाशनार्थम् अगच्छन् । पुरुणि कृत्रिमाणि 'सीदन्तः तिष्ठन्तोऽसुरा' यत्र नार्षदम् कण्वं भेत्तुमैच्छन्निति । अन्न शाटायनकम् – 'सा होवाच पुनर्वात्र वा परोक्षेणैव जिघासन्ति । अश्रौषं वा एवं संवदमानानाम् । आसन्दीं व ते हिरण्मयीं प्रच्छाये निधास्यन्ति । तस्या मोपवेशोरिति । ते ह प्रययुः | तस्मै ह हिरण्मयीम् आसन्दीं प्रच्छाये निदधुः । तस्या ह प्रमत्त उपविवेश' ( जैना ३, ७३ ) इत्यादि । किञ्चायम् *वि विद्वत् शुष्णासुरस्य बहुप्रादुर्भावस्य स्नायुभिः सङ्ग्रथितम् भर्म गुहायाम् अन्त. शरीरे यत् तद् निगूढम् अनर्वा अप्रत्यृत इति ॥ १३ ॥ ! ३५१५ भगो॑ ह॒ नाम॒त यस्य॑ दे॒वाः स्वर्ण ये त्र॑पध॒स्थे नि॑षे॒दुः । अ॒ग्ग्रिह॒ नाम॒ोत जा॒तवे॑दाः श्रु॒धी नो॑ होतऋ॒तस्य॒ होताध्रुक् ॥ १४ ॥ भवः॑ । ह॒ । नाम॑ । उ॒त । यस्य॑ । दे॒वाः । स्वः॑ः । न । ये । त्रि॒ऽस॒धस्थे । नि॒ऽसे॒दुः । अ॒ग्निः । ह॒ । नाम॑ । उ॒त । जा॒तवे॑दाः । श्रुधि । न॒ः । ह॒ोत॒ः । ऋ॒तस्य॑ | हो | अ॒ध्रुक् ॥ १४ ॥ घेङ्कट० अपि च भर्गः ह नाम तत् तेजः, यस्य सर्वे देवाः वशवर्तिनः स्वर्ग इव से देवाः निषधस्थे बर्हिषि निषीदन्ति । किं तत् तेज इत्याह - अग्निः ह नाम अपि च जातवेदाः च । भय प्रत्यक्षः । शृणु अस्माकम् स्तुतिम् होनः ! यज्ञस्य हाता देवानाम् द्रोदवातः ॥ १४ ॥ उ॒त त्या मे॒ रौद्रा॑वर्च॒मन्ता॒ नास॑त्याविन्द्र गूर्तये॒ यज॑ध्यै । म॒नु॒ष्वद् वृ॒क्तव॑हि॑षे॒ ररा॑णा म॒न्दू हि॒तम॑यसा वि॒क्षु यज्यू॑ ॥ १५ ॥ उ॒त । त्या । मे॒ । रौद्रो॑ौ । अ॒चि॒ऽमन्तः॑ । नास॑त्यौ । इ॒न्द्र॒ । ग॒र्तये॑ । यज॑ध्यै । म॒नुष्यत् । वृ॒क्तऽव॑हि॑षे । ररा॑णा | म॒न्दू इति॑ हि॒तऽप्र॑यसा | वि॒क्षु । यज्य॒ इति॑ ॥ १५ ॥ वेङ्कट० अपि च सौ मे रुद्रस्य पुत्रौ दीप्तिमन्तौ नाराध्यौ इन्द्र | स्तोत्राय यशाय* च भवेताम् मम पितुः मनोरिव मह्यं रुतीर्णबईये रममाणी मदिष्णू दत्तानो मनुष्येषु यष्टव्यौ ॥ १५ ॥ ' इति अष्टमाटके प्रथमाध्याये मष्टाविंशो वर्गः ॥ १-१.दनो वि दन्तोसुशः वि. समामरियत वि. ४. नाहित वि. ५. महिष्णू वि भ. २-२. विविधशुष्मा वि ६ ६. नास्ति मूको. ३-३० स्नामि