पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ८९, मं १५ ] दशमं मण्डलम् बेङ्कट० वर्हि स्विद् तत् इन्द्र | आयुषम् अभूत् त्वदीयम्', आहननार्थम् भागच्छत् रक्ष: येन अभिनः, मित्राणां क्रूरस्य कर्मणः कर्तारः येन विशसनस्थाने पशवः इव पृथिव्याः अस्या आपचंनाहताः सन्तः अनया पृथिव्या सङ्गता युद्धे शेरत इति ॥ १४ ॥ श॒त्रूयन्तो॑ अ॒भि ये न॑स्तत॒स्रे महि॒ ब्राध॑न्त ओग॒णास॑ इन्द्र | अ॒न्धेना॒मित्र॒स्तम॑सा सच॒न्तां सुज्योतिषो॑ अ॒क्तव॒स्ताँ अ॒भि यु॑ः ॥ १५ ॥ श॒त्रुऽयन्त॑ः । अ॒भि । ये | न॒ः । त॒त॒स्रे । महि॑ । त्राध॑न्तः [ अ॒ग॒णास॑ः । इ॒न्द्र । अ॒न्धेन॑ । अ॒मित्रा॑ः इ॒ तम॑सा । स॒च॒न्ता॒म् । सु॒ऽज्यो॒ोतिष॑ः । अ॒क्तवः॑ः । तान् । अ॒भि । स्तु॒रति॑ स्युः ॥ चेङ्कट० शत्रुत्वमिच्छन्तः अभि क्षिपन्ति ये अस्मान् अत्यन्तं बाधमानाः सङ्घीभूताः इन्द्र ! अमित्राः अन्धेन तमसा सद्गच्छन्ताम् सुज्योतिषः दिवसा: रात्रयश्च तान् अभि-भवन्तु ॥ १५ ॥ पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑नां॒ ब्रह्म॑णि॒ मन्द॑न् गृण॒तामृषी॒णाम् । इ॒मामा॒घोष॒न्नव॑मा॒ सह॑तं ति॒रो विश्वा॒ाँ अच॑तो याह्य॒र्वाङ् ॥ १६ ॥ पु॒रूणि॑ । हि । त्वा॒ । सव॑ना । जना॑नाम् । ब्रह्मणि । मन्द॑न् । गृण॒ताम् | ऋषणाम् । इ॒माम् । आ॒ऽघोष॑न् । अव॑सा । सऽहु॑तिम् | ति॒रः । विश्वा॑न् । अचे॑तः । य॒ाहि॒ । अ॒र्वाङ् ॥१६॥ चेङ्कट० बहूनि हि त्वा सवनानि जनानाम् ब्रह्माणि च मन्दन् स्तुवसाम् ऋषीणाम् । इमाम् स्तुतिम्

  1. स्वम् आघोषन् सुष्टुतमिति चदन् रक्षणेन सह तिरस्कृत्य अन्यान् स्तुवतः सर्वान् अभिमुखः

गच्छ अस्मान् इति ॥ १६ ॥ ५ ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जीनां वि॒धाम॑ सु॒मती॒नां नवा॑नाम् । वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒श्वामि॑त्रा उ॒त ते॑ इन्द्र नूनम् ॥ १७ ॥ ए॒व । ते॒ । व॒यम् । इ॒न्द्र॒ | भुञ्जीनाम् । वि॒द्याम॑ । सु॒ऽमतीनाम् | नवा॑नाम् । वि॒याम॑ । वस्तो॑ । अव॑सा । शृ॒णन्त॑ः । वि॒श्वामि॑नाः । उ॒त । ते॒ । इ॒न्द्र॒ । नुनम् ॥ १७ ॥ बेङ्कट० एवम् ते वयम् इन्द्र | रक्षन्तीः लभेमहि सुमती: नवाः | विद्याम च वसतिम् रक्षणार्थम् स्तुवन्तः। विश्वामित्राः अभी त्वदीया एव भवन्तु पुरा च इदानीं चेति ॥ १७ ॥ शु॒नं॑ हु॑वेम म॒घवा॑न॒मिन्द्र॑म॒स्मिन् मरे॒ नृत॑नं॒ वाज॑सातौँ । शृ॒ण्वन्त॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ मन्तै वृ॒त्राणि॑ सं॒जिते॒ धना॑नाम् ॥ १८ ॥ शु॒नम् । हु॒वेम॒ । म॒घऽवा॑नम् । इन्द्र॑म् | अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ । शृ॒ण्वन्त॑म् । च॒मम् । उ॒तये॑ । स॒मत॒ऽसु॑ । मन्त॑म् । वृ॒त्राणि॑ । स॒मूऽजित॑म् । धना॑नाम् ॥१८॥ १. सदी मूको. २. तदक्षः त्रि. ३-३. अमि क्षयन्ति वि' ' "मक्षय वि ४.४. च मोषो वि* ; तमापो• वि. ५. "स्मात् स्थितिः वि' म. ६. 'दामी मूको,