पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमं मण्डलम् सू ४३, मं ४ ] पुना॒नः । याति॒ । ह॒र्य॑तः । सोम॑ः । ग्रीःऽभिः । परि॑ऽकृतः । निम॑स्य | मे॒ध्य॑ऽअतिथः ॥ ३ ॥ वेङ्कट० पूयमानः याति स्पृहणीय सोमः त्रिप्रस्य मेव्यातिथेः' गोभिः अलङ्कृत: मदार्थम् इति ॥ ३ ॥ पव॑मान वि॒दा र॒यिम॒स्मभ्यं॑ सोम सुश्रय॑म् | इन्दो॑ स॒हस्र॑वर्चसम् ।। ४ ।। पव॑मान । वि॒दाः । र॒यिम् | अ॒स्मभ्य॑म् । स॒म॒ | सु॒ऽश्रय॑म् । इन्द्रो॒ इति॑ । स॒हस्र॑ऽवर्चसम् ॥ ४॥ चेङ्कट० पवमान ! देहि रयिम् अस्मभ्यम् सोम | कान्तम् इन्दो ! बहुदीप्तिम् ॥ ४ ॥ इन्दु॒रत्यो॒ न वा॑ज॒सृत् कनि॑क्रन्ति प॒वित्र॒ आ । यद॒क्षारति॑ देव॒युः ॥ ५ ॥ इन्दु॑ः । अत्य॑ः । न । च॒ज॒ऽसृत् । कनि॑क्रन्ति । प॒वित्र॑ । आ । यत् | अक्षः । अति॑ । दे॒वऽयु.॥ वेङ्कट० इन्दुः अश्व इव सङ्क्रामसृत शब्दं करोति पविने यदा अति क्षरति देवकामः ॥ ५ ॥ पव॑स्व॒ वाज॑सातये॒ विप्र॑स्य गृण॒तो वृ॒धे । सोम॒ रास्वं॑ सु॒वीर्य॑म् ॥ ६ ॥ पव॑स्व । वाज॑ऽसातये॑ । त्रिप्र॑स्य । गृ॒ण॒तः । वृ॒धे । सोमे॑ | रास्वं॑ । स॒ऽश्रीर्य॑म् ॥ ६ ॥ । । घेङ्कट० पवस्व अन्नदानाय, विप्रस्य स्तुवतः वर्धनाय च । सोम । देहि सुवर्यम् इति ॥ ६ ॥ ' इति पष्टाष्टके अष्टमाध्याये त्रयस्त्रिंशो वर्ग. ॥ ऋगर्थदीपिका सेयं तथा कर्ता श्रीवेङ्कटाऽऽयंस्य तनयो पष्टोऽयमष्टकः । माधवाह्वयः ॥ इति वेङ्कटमाधवाचार्यविरचिते ऋक्संहिताव्याख्याने पष्ठाष्टकेऽष्टमोऽध्याय ॥ इति ऋग्वेदे सभाप्ये पष्ठाष्टके अष्टमोऽध्यायः ॥ 12. नास्ति मूको २. "सम् वि. अ.