पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ६, व २८. पर्णम् इव यथा केचिदिपुकाराः इष्वाः सम्बन्धि पर्ण वाजाख्यं सुश्लिष्टम् इपावादधति एवम् । एतज्ज्ञात्वा प्रतीचीम् त्वां प्रतिगतां प्रार्थनाद्वारेण स्वत्कर्णपथं प्राप्ताम् बाचम् प्रार्थनारूपाम् 'एपा त्वा पातु निरुपस्थात् (ऋ१०, १८, १०), 'उच्छ्वश्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपवञ्चना' (ऋ १०, १८, ११) इत्यादिकाम् अधिकृतसत्काराम् जग्रभ गृहाण किमिव । अश्वम् रशनया रज्ज्वा यथा कश्चिद् गृह्णीयात् कर्तध्यत्वेन, मनसि कुर्वित्यर्थः । २ ३२८८ अथवा मृतस्य पुत्रो प्रवीति । प्रतीचीने प्रतिगते अद्याहनि मां मृतस्य पुत्रम् भादधुः इमशानकर्मणि कर्तव्ये महताऽऽदरेण लिष्टमाहितवन्तः अधिकृतवन्तः ऋत्विगादयः स्मृतिकारा था | किमिव क्षा दधु । इश्वाः सम्बन्धि पर्ण बाजाख्यं यथा केचिदिपुकारा पर्ने सुलिष्टम् इषावादधति, एवम् । एतज्ज्ञात्वा हे पृथिवि !" प्रतोचीनम् प्रार्थनाद्वारेण स्वत्कर्णपथ प्राप्तां बाचम् प्रार्थनारूपाम् 'एपा त्वा पातु निरृतरुपस्थात्', 'उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः' इत्यादिकाम् जप्रभ गृहाण फर्तव्यत्वेन । किमिय अश्वम् रशनया यथा कश्चिद् गृह्णाति एवम् ॥ १४ ॥ चेट० 'सञ्चयनमूर्ध्वं दशम्याः कृष्णपक्षस्य ( आगृ ४, ५, १ ) इत्युक्तम् । अपचोयमानचन्द्र के माम् अनि समस्यन्त.' ते इष्वाः पर्णमिव आदधुः । वाचम् च मदभिमुखीमिमां' जमाह मन्त्रेण संस्कृतो यथा समादाय स्वगै गच्छति, नत्ववधूय अवक्राम्यति अश्वम् रशनया यथा इति । 'छन्दास्येनं मृत्युकाले त्यजन्ति" "नोडं शकुन्ता इव जातपक्षा. ५ ( वाघ ६, १ ) इति स्मृतिः ॥ १४ ॥ " इति सप्तमाष्टके पष्टाध्याये अष्टाविंशो वर्ग: २ ॥ व्याकरीतू पष्टमध्यायं सप्तमस्याष्टकस्य स. १३ । दुहिता भवगोलस्य सुन्दरी यमजीजनत् ॥ इति वेङ्कटाचार्यविरचिते ऋषसंहिताव्याख्याने सप्तमाष्टके पष्ठोऽध्यायः ॥ इति ऋग्वेदे सभाप्ये सतमाष्टके पष्ठोऽध्यायः ॥ · पातिक ५. भाभि वि. ६वी [भूको. "धीमई दि; 'शीम रि. मू१२ मि. २. अधिकृत मूको. ३. मरिनयन्तः वि.. ४.तिकारा का वि. ७. के मूको. ८. मायस्यान्त विम; मसस्यन्त वि. भूको० ११-११. नीता विभ. १२-१२, माति