पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ अ ७, अरे, व १५. आ क॒लशे॑षु धावत श्ये॒नो वर्म॒ वि गा॑हते । अ॒भि द्रोणा॒ कनि॑क्रदत् ॥ १४ ॥ आ । क॒लशे॑षु । धा॒ाय॒ति॒ । श्ये॒नः । वर्म॑ । वि | गृ॒ह॒ते । अ॒भि । द्रोण | कनि॑क्रदत् ॥ १४ ॥ वेडर० आ धावति द्रोणकलशेषु कश्चित् । इयेनः चुरायम् प्रविशति । अभि गच्छति च द्रोणानि' शब्दं कुर्वन् || १४ || परि॒ प्र सो॑म ते॒ रसोऽस॑र्ज क॒लशे॑ सु॒तः । श्ये॒नो न स॒क्तो अ॑र्पति ॥ १५ ॥ परि॑ । प्र । सु॒ोम॒ । ते॒ । रस॑ः । अस॑र्ज । क॒लशे॑ । सु॒तः । श्ये॒नः । न । त॒क्तः । अर्प॑ति॒ ॥ १५॥ वेङ्कट० परि प्रसृज्यते कलशे सोम ! तव सुतः रसः, श्येनः एव गमनशीलः गच्छति। तकतिः गतिकमैति' (तु. निघ २,१४ ) ॥ १५ ॥ इति सप्तमाष्टके द्वितीयाध्याये पञ्चदशो वर्गः ॥ पव॑स्व सोम म॒न्द्रा॑य॒निन्द्रा॑य॒ मधु॑मत्तमः ॥ १६ ॥ पव॑स्व । स॒ोम॒ । म॒न्दय॑न् । इन्द्रा॑य | मधु॑मत्तमः ॥ १६ ॥ बेङ्कट० पवस्व सोम | हर्षयन् इन्द्राय मधुमत्तमः | तिस्रो नित्यद्विपदाः ॥ १६ ॥ असृ॑ग्रन् दे॒वसी॑तये वाज॒यन्तो स्था॑ इव ॥ १७ ॥ असु॑ग्रन् । दे॒वऽवी॑तये । वा॒ाज॒ऽयन्त॑ः | रथा॑ इव ॥ १७ ॥ घेङ्कट० सृज्यन्ते देवपानाय अनमिच्छमाना इव रथाः ।। १७ ।। ते सु॒तासो॑ म॒दिन्त॑माः शु॒क्रा वायुम॑सु॒क्षत ॥ १८ ॥ ते । स॒तास॑ । म॒दिन्ऽत॑माः । शुक्राः । वायुम् | अ॒सृक्षत॒ ॥ १८ ॥ घेङ्कट० ते सुता सोमाः मादयितारः अवलन्त शब्दं सुजन्ति, वायुम् एव वा ॥ १८ ॥ ग्राव्णः॑ त॒न्नो अ॒भिष्ट॑तः प॒वित्र॑ सोम गच्छसि । दध॑त् स्तो॒त्रे सु॒वीर्य॑म् ॥ १९ ॥ आग्णः॑। तुन्न । अ॒भिऽस्तु॒त । प॒वित्र॑म् | सोम॒ | ग॒च्छ॑सि॒ । दध॑त् । स्तो॒त्रे | सु॒वीर्य॑म् ॥१९॥ घेङ्कट० ग्राणा' समिपीडित अति पवित्रम् सोम ! गच्छसि प्रयच्छन् स्तोत्रे सुवीर्यम् ॥ १९ ॥ ए॒ष त॒न्नो॑ अ॒भिष्टु॑तः प॒वित्र॒मति॑ गाह॒ते । र॒क्षोहा वार॑म॒व्यय॑म् ॥ २० ॥ 1. द्रोणकलशानि विं, २. परिसृज्य वि परिमय विल ५.५. नाहित मुको. ६. सुते वि . ७. 'लन्ति 'छवि . ४, गनिकम्मणेति दि. मिथुन: मूको २. युटितम् वि भ'. ८. नास्ति वि.