१७ यथा अबजत्रिभुजं दहझत्रिभुजं बजभुजहझभुजयोरुपरि ब रेखायामस्ति । ज ह अदरेखा कार्या । इयं रेखा बझरेखायाः समानान्तरास्ति । यदि समानान्तरा न स्यात् तदा अवरेखा समा अ नान्तरा स्यात् । वक्षरेखा कार्या । तदा | वहऋत्रिभुजं दहक्षत्रिभुजं चैते । समाने स्यातां स्वखण्डस्य समत्वात् । इदमनुपपन्नम् । अथैकचत्वारिंशत्तमं क्षेत्रम् । चतुभुजं त्रिभुजं चैकदिश्येकभुजोषरिस्थितं द्वयोः समा नान्तररेखयोर्मध्यवचि भवति तदा चतुर्थी त्रिभुजाद् द्विगुणं भवति । यथा अबजदचतुभुजं हबजत्रिभुजं बजभुजोपरि अहबजस मानान्तररेखयोर्मध्यवर्यस्ति । तस्मात्रिभुजाद्विगुणं जातम् । अत्रोपपत्तिः । अजरेखा कार्या । एवं अबजदचतुर्युजं अबजत्रिभुजाद्विगुणमस्ति। पुनः अबजत्रिभुजं हबजत्रिभुजेन समान- ओ * - मस्ति । तदा अबजदचतुभुजं हबजत्रिभु N द्विगुणं जातम् । चतुर्युजं त्रिभुजं च द्वयोः समयोभुजयो- " रुपरि स्थितमेकदिशि द्वयोः समानान्तररेखयोर्मध्यवर्ति भवति तदापि चतुर्युजं त्रिभुजाद्विगुणं भवति ॥ अथ द्विचत्वारिंशत्तमं क्षेत्रम् । तत्रैकं त्रिभुजं ज्ञातमस्ति एककोणश्च ज्ञातोऽस्ति ताभ्यां १ स्यातां च खण्डस्य समानत्वात् D.
पृष्ठम्:Rekha Ganita.djvu/१२२
दिखावट