पृष्ठम्:Rekha Ganita.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ यथा अबजत्रिभुजं दहक्षत्रिभुजं बजइझसमानभुजोपरि बझअ- दसमानान्तररेखयोर्मध्येऽस्ति तस्मात्ते समाने जाते । अत्रोपपत्तिः । बचिहात् जअरेखायाः स- ग रक्ष मानान्तरा बवरेखा कार्या । इचिहात् हदखायाः समानान्तरा झत- रेखा कार्या। अदरेखा दिग्द्वये वद्धिता तथा कार्या यथा वतचिद्वयोः संपातं करोति । एवं बजअवचतुर्मुखं दहशतचतुर्भजं वजहन्नस मानभुजोपरि समानान्तररेखयोर्मध्येऽस्ति । तदेते चतुभुजे समाने जाते । तदैतयोरद्वै त्रिभुजे समाने भवतः । इदमेवेष्टम् ॥ अथैकोनचत्वारिंशत्तमं क्षेत्रम् । त्रिभुजद्वयं समानमेकदिशि स्थितमेकभुजोपरि यदि भवति तत्रिभुजद्वयं द्वयोः समानान्तररेखयोर्मध्यवर्ति भविष्यति। यथा अबजत्रिभुजदबजत्रिभुजे बजभुजोपरि स्थिते ।पुनः अदरे खा कार्या । सा बजरेखायाः समानान्तरा । भवति । यदि समानान्तरा न स्यात् तदा अहरेखा बजरेखासमानान्तरा स्यात् । हजरेखा कार्या । तत्र हबजत्रिभुजं में ज अबजत्रिभुजेन समानम्। अबजत्रिभुजं दबजत्रिभुजेन समानम् । तदा ह्बजत्रिभुजं दबजत्रिभुजेन समानं जातं खण्डस्य साम्यात् । इदमनुपपन्नम् । तस्मात् अदरेखा बजरेखायाः समानान्तरा जाता । इत्युपपन्नम् । अथ चत्वारिंशत्तमं क्षेत्रम् । तत्र समान त्रिभुजद्वयमेकरेखायां समानभुजद्वयोपरि भवति तत्रिभुजद्वयं द्वयोः समानान्तररेखयोर्मध्यवर्ती भवति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१२१&oldid=150683" इत्यस्माद् प्रतिप्राप्तम्