पृष्ठम्:Rekha Ganita.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ णेन तुल्यो जातः । तदा अजदकोणो बहिःस्थः बअकोणद्वययोगेन तुल्यो जातः । पुनः अजदकोणः अजबकोणयुक्तो द्वयोः समकोणयोः समानोऽस्ति । तदान्तर्गतकोण त्रययोगो द्वयोः समकोणयोः समानो जातः । ६ । इदमेवास्माकमभीष्टम् ॥ पुनः प्रकारान्तरम् । तत्र अचिहात् बदरेखायाः समानान्तरा अग्नरेखा कार्या । तदा अबकोणो बको णेन तुल्यो जातःपुनः झअजकोणः अजद- - ) कोणेन तुल्यो जातः । तदा अजदकोणः अबकोणयोस्तुल्यो जातः । इदमेवेष्टम् ॥ अथ त्रयस्त्रिंशत्तमं क्षेत्रम् । तत्र रेखाद्वयं समानं समानान्तरं चास्ति तदग्रयोः संल श रेखा कार्या एवं द्वितीयाग्रयोः संलग्नरेखायास्तद्रेखाद्वयं समानं समानान्तरं भवति । यथा अबरेखाजदरेखे समाने समा• अ लग नान्तरे च स्तः । तदा तदप्रयोः अज रेखाबदखे च कृते । एते रेखे समाने l , समानान्तरे च भविष्यतः । अत्रोपपत्तिः। बजरेखा कार्या । तदा अबजत्रिभुजे बजदत्रिभुजे च अबभुजो बजभुजः अबजकोणश्च दजभुजो बजभुजो दजबकोणचैते यथा क्रमेण समानाः स्युः । तदा अजभुजो बदभुजेन समानो जातः। पुनः अजबकोणः दबजकोणचैतौ समानौ स्तः । ततः अजको बदभुजेन समानान्तरो जातः। इदमेवास्माकमिष्टम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/११६&oldid=150676" इत्यस्माद् प्रतिप्राप्तम्