पृष्ठम्:Rekha Ganita.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ पुनः प्रकारान्तम् । अदरेखा बजरेखायां हचिहे संपातं यथा करोति तथा कार्या । तत्र अहबत्रिभुजे जहदत्रिभुजे च अहबकोणो त्र जहदकोणेन समानोऽस्ति । पुनः अबहकोणः दब हकोणश्चैतौ समानौ स्तः। अबभुजो जदभुजसमा नोऽति । तदा अहभुजदहभुजौ समानौ जातौ । ’ तदा बहभुबजहभुजौ च समानौ जातौ । पुनः अहजत्रिभुजे बह दत्रिभुजे च अहसुजो हजभुजः अहजकोणश्च दहभुजेन बहनु जेन बहदकोणेन च यथाक्रमं समानः । एवं अजभुजबदभुजौ समानौ जातौ । पुनः अजहकोणदबहफोणौ समानौ जातौ । तदा अजभुजो बदभुजेन समानान्तरो जातः। इदमेवास्माकमिष्टम् ॥ अथ चतुर्विशत्तमं क्षेत्रम् । तत्र यस्य चतुभंजक्षेत्रस्य भुजाः समानान्तरा भवन्ति तस्य परस्परसम्मुखं भुजद्वयं समानं भवति तथा परस्परः सन्मुखं कोणद्वयं च समानं भवति तत्कर्णश्च क्षेत्रस्य समानं भागद्वयं करोति । यथा अबजदचतुभुजक्षेत्रस्य बदकर्णः कल्पितः । अत्रोपपतिः। अदबकोणो जबदकोणेन समः । पुनः अबदकोणः जदबकोणेन समः। एवं अदबत्रिभुजे जबदत्रि- अ ज भुजे च अदबकोणः जबदकोणश्चै तौ समानौ स्तः । पुनः अबदकोणः जदबकोणचैतौ समानौ जातौ । न बदभुजश्चोभयोस्त्रिभुजयोरेक एव । तर्हि अदभुजबजभुजौ समानौ । अबभुजजदभुजौ च समानौ । पुनः अकोणजकोणौ समानौ जातौ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/११७&oldid=150677" इत्यस्माद् प्रतिप्राप्तम्