पृष्ठम्:Prabandhaprakasha.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
विविधं प्रबोधवचनमन्तरा नान्यत् किश्चित् तदानीमिन्दुमती-
भाग्यं तस्या उपहतु प्राभवत् ।
f
अहो प्रशस्यो धर्मरक्षण प्रकार: ! नूनं तथापतितां तामा-
लोक्य प्रावाव्यभेत्स्यत, लौहमपि व्यद्रोष्यत् वज्रमपि च शतधा
व्यदरिष्यत् । न तु तत्रत्यैर्मनागपि विचलितम् ! न विभाता
विभावरी, न वा समुदिता भगवान् सहस्रकिरणः । इन्दुमती
सुष्ठु खलु बान्धवानामुपदेशवचनमनुसृतवती । निरीक्षितस्तया
भगवान् धर्म्मः, आाहतो देवो मधुसूदनः । निमीलितं चिराय
लोचनयुगलम् । अवलम्बितं च सुमहन्मानम् |
किञ्च
जलं जलमिति न पुनस्तया बान्धवा जन उद्वेजितः ॥
कश्चिद्वङ्गोय:
प्रकाशानन्दशर्मा ।

  • मित्रगोष्ठी पत्रिका, द्वितीयवर्षे ( शक० १८२७ ) पृ० १३-१६

६१
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/९९&oldid=355397" इत्यस्माद् प्रतिप्राप्तम्