पृष्ठम्:Prabandhaprakasha.pdf/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२
प्रबन्धप्रकाश:
मण्डलं प्रविष्टाः परमं धाम ययुः । सा च माया चक्राकारेण
संसारेण वृषगर्दभाकारधर्माधर्माभ्यां च सहिता क्वापि प्रणष्टा ।
एवमेव वत्स ! स्वकर्मभिः शुक्ला: कृष्णाश्च जन्तवोऽस्मिन् संसारे
भ्रमन्ति । ईश्वराराधनसंजातज्ञानाग्निना च दग्धपाशा मुच्यन्ते
संसारसङ्कटात् । तद् गीयते - "ज्ञानाग्निः सर्वकर्माणि भस्मसा
तकुरुतेऽर्जुन" इति । अयमेवार्थस्तव मोहनिवृत्तये परमेश्वरेण
सन्दर्शितस्योक्तेन्द्रजालस्य | तथा च श्रुति:-
"
भिद्यते हृदयग्रन्थिरित्यादि |
www.g

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/९०&oldid=355388" इत्यस्माद् प्रतिप्राप्तम्