पृष्ठम्:Prabandhaprakasha.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
८१
अथ ते श्वेतकृष्णा भयमुखेन सर्पेणैकेन समेत्य दष्टा: पुनम्त-
थैव तान् पाशांछित्त्वा यथायथं स्थिताः । अथ विषज्वालया
तत्पुष्पजालस्थेष्वारटत्सु अन्येऽप्यजालस्था: क्रन्दितु प्रवृत्ता: ।
तेन तेषां रोदनध्वनिना भग्नसमाधिस्तत्रस्थः कोऽपि दयालुस्ताप-
सस्तान् जालादमोचयत् । ततेो निर्दग्धपाशास्ते कस्यापि द्रुमस्य
विवरं प्रविष्टा: सूर्यतेजसि विलीना अभवन् । तावच सा
योषित्सचक्रवृषगर्दभा क्वापि गता ।

एतदालोक्य स महीपतिराश्रमपदं गत्वा तन्महदाश्चर्य
तस्मै महर्षयेऽवर्णयत् । सच तद्रहस्यमेवमुदघाटयत् ।
सौम्य ! या त्वया तत्र स्त्री दृष्टा सा माया । तद्भ्रामितं
च यच्चक्रं तत्संसारचक्रम् | ये भृङ्गास्ते तत्र जन्तवः
यै| च
वृषगर्दभी दृष्टो तै| धर्माधर्मी विद्धि । ताभ्यां वान्तं च यद्
दुग्धमसृक् च ते उभे सुकृतदुष्कृते । ये च जालपाशा निर्मिता-
स्ते सुतादय: । सुपुष्पाणि विषपुष्पाणि च यानि तानि सुख-
दुःखानि । कालेन यथास्वं तेषु तेषु ते संसक्ताः । वत्स !
इत्थं शुभाशुभफलमुखेनाहिरूपेण कालेन हता: प्राणिनस्तया
स्त्रीरूपया मायया नानायोनिषु क्षिप्ता: । ते च तुल्यासु पतिता:
श्वेता:, अतुल्यासु कृष्णाः । इत्थं द्विविधाः पुत्रादिजालपाशेषु
सुखदुःखानुबन्धिषु संसक्का जायन्ते । ततो निजैर्जालैः कृष्टा
बद्धाश्च दुःखविषार्दिताः परमुद्विग्ना: कन्दितु प्रवृत्ता: शरण्यं
परमेश्वरमाह्वयन्ति । ततः प्रबुध्य तेन तापसरूपिणा देवेन ज्ञाना-
मिज्वालया सर्वे दग्धपाशा: कृताः । ततश्च ते द्रुमरूपादित्य-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/८९&oldid=355387" इत्यस्माद् प्रतिप्राप्तम्