पृष्ठम्:Prabandhaprakasha.pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८०
प्रबन्धप्रकाश:
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः |
क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे ||
कथं नु खलु नानाविधविपज्जालज्वालावलीसुदुःसहस्य
संसारसागरस्यैतस्य पारं गन्तु सान्द्रानन्दसदनं परमेश्वरं च
प्राप्तु प्रभवति मनुष्य इति मीमांसायां श्रुतिशिरोवागियं
समुल्लसति -
भिद्यते हृदयप्रन्थिरित्यादि ।
एष एवार्थोऽधोवर्णितया हृदयङ्गमया कल्पिताख्यायिकया
विशदीक्रियते ।
C
कदाचिदेको महीपति गयाप्रसङ्गेन सुदूरमटन् सर्वानुचर-
गणैवियुक्त एकाकी शुभभाग्यवशात्कस्यचिन्महर्षेराश्रमपदं प्राप |
तत्र तेन मुनिना दत्तै: फलजलैह तक्कुम: पर्यटन्नाश्रमादनतिदूरे
बृहतीमेक गुहामद्राक्षीत् । गुहां प्रविश्य तस्यामेकमुत्तमं
मन्दिरं दृष्ट्वा संजातकौतुको यावब्जालगवाक्षैस्तदभ्यन्तरमव-
लोकप्रिवृत्तस्तावत्पश्यति यत्तत्र कापि योषित् सभृङ्गकं
चक्रमेकं भ्रामयन्ती तिष्ठति ।
तदनन्तरं ते भृङ्गास्तत्र स्थित
'F
वृषमेकं गर्दभञ्च समाश्रिताः । ताभ्यां च वृषगर्दभाभ्यां मुक्तों

क्षीरासृकूफेनौ पीत्वा ते भृङ्गाः सिता असिताश्च भूत्वा स्ववि
ष्ठाभिर्जालकारका जाता: । ततस्तै द्विविधैविविधा: सुपुष्पैवि-
षपुष्पैश्च संयुता जालपाशा: कृताः । ते च जालकारकास्तेषु
पुष्पेषु यथासुखं संस्थिताः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/८८&oldid=355386" इत्यस्माद् प्रतिप्राप्तम्