पृष्ठम्:Prabandhaprakasha.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८३
प्रबन्धप्रकाश:

ध्यानमयदृष्टिपातप्रमुषितकालाध्वविप्रकर्षेषु
विषयेषु नैष्ठिकानां सर्वपथीना मतिः क्रमते ॥
इह खलु मोहसलिल प्रचलदुर्मिमालाकुले विषयवासना.
महाग्राहसमाकुले संसृतिपय निधौ केचिदेव विषयवासनाग्राहान्
वशमानाय ब्रह्मज्योति:प्रभासितान्तःकरणास्तपोनिष्ठाः पारेग-
न्तारः समालोच्यन्ते । अन्यथा प्राय: सर्वेऽपि प्रस्ता विषय.
वासनामा हैरज्ञानविमोहितधियोऽन्धा इव सत्यासत्यमनवेत.
माणा इहैव निमज्जन्ति । नैव ते कस्यापि वस्तुनस्तत्वमव-
गन्तु पारयन्ति । ये तु वशिनो ब्रह्मनिष्ठास्तपोधनास्त एव
सर्वमतीतमनागतं वर्तमानं चावन्तु समर्था: । इसमेवार्थम-
भिप्रेत्य कस्यापि कविशिखामणेर्भणितिरियम् -
-
ध्यानमयदृष्टिपातेत्यादि ।
स्थिरप्रज्ञानां निष्ठावतां मुनीनां सर्वमार्गप्रवर्तिनी बुद्धि-
यनमयदृष्टिपातेन कालावनोर्विप्रकर्ष दूरीकृत्य विषयमात्रे
स्फुरतीत्यर्थः ।
अयं भावः ।
"
इह भुवने "पराचि खानि व्यतृणत्स्वयम्भूस्तस्मात् पराङ
पश्यति नान्तरात्मन्” ( कठोपनिषद् ४११ ) इति श्रुत्यनुसार
विषयविमोहितधिय: सामान्या इन्द्रियवशं गताः प्रायश इहैव
मोहपूरवाहिनि संसारसागरे निमज्जन्तोऽन्धा इव किमपि वस्तु-
तत्त्वमवगन्तुमसमर्थाः । तेषां विषये कालाध्वविप्रकृष्टवस्तुनः का
A

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/९१&oldid=355389" इत्यस्माद् प्रतिप्राप्तम्