पृष्ठम्:Prabandhaprakasha.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
विकसति यदि पद्म पर्वताम्रे शिलाय
न भवति पुनरुक्तं भाषितं सज्जनानाम् ||
किञ्च । अङ्गनवेदी वसुधा कुल्या जलधि: स्थली च पातालम् |
वल्मीकश्च सुमेरु: कृतप्रतिज्ञस्य वीरस्य ||
सत्यमेवंविधा एव महासत्वा विपत्परम्परा: समापतन्तु,
सपदि राज्यलक्ष्मीर्विलय मेतु, शिरस उपरि कृपाणधारा: पतन्तु,
किंबहुना, प्राणात्ययेऽप्य भीप्सितमर्थम साधयित्वा न निवर्तन्ते ।
ते हि विपत्समागमं स्त्रपरीक्षणार्थ मेवोदितं मन्यन्ते । कनकस्य
निकषोपल इव तेषां परीक्षणार्थमेव व्यसननिकषोपलोदयः ।
तदत्र स्मृतिपथमायाति तत्रभवतो भर्तृहरे : पद्यमेतत् -
खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमन्ति मध्या: ।
विघ्नः सहस्रगुणितैरपि हन्यमानाः
प्रारभ्य चोत्तमजना न परित्यजन्ति ||
सार्वकालिकं सार्वत्रिकं चैतद् वृत्तं मानवकुलावतंसानाम् ।
इतिहासपुराणेषु तावत् शतशो गाथा एतदर्थनिदर्शनीभूता:
श्रयमाणा श्राह्लादयन्ति नश्चेतांसि ।
येथा हि भगवति कैलासाधिपती तपस्तपस्यति समाधि-
भङ्गार्थमतिमात्रं मन्मथेन प्रयत्ने कृतेऽपि नहि समाधिभेदाय
कोऽप्यन्तराय: प्रभुर्बभूव । तथा चाकर्ण्यते--
श्रुताप्सरोगोतिरपि क्षणेऽस्मिन्हर: प्रसंख्यानपरो बभूव ।
प्रात्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/८६&oldid=355384" इत्यस्माद् प्रतिप्राप्तम्