पृष्ठम्:Prabandhaprakasha.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6
प्रबन्धप्रकाश:
क ईप्सितार्थस्थिरनिश्चयं मनः
पयश्च निम्नाभिमुखं प्रतीपयेत् ॥
इह खलु विविधचरित्रविचित्रिते जगति दृष्टिपथमायान्ति
द्विविधा मानवा:- संशयात्मानो निश्चयात्मानश्च । आद्या-
स्तावदखिलेष्वासाद्यत्वीयमनोरथेष्वनिश्चितान्तःकरणा भवन्ति ।
ततश्च "संशयात्मा विनश्यति”, “न संशयमनारुह्य नरो भद्राणि
पश्यति" इत्याद्यभियुक्तोक्त्यनुसारं नैव ते स्ववाञ्छितमर्थमधि-
गन्तु' शक्ता: । प्रथमं तु तेषामप्रवृत्तिरेव स्वमनोरथसाधनाय ।
कथ वर्तमाना वा स्वल्पेनैवावरोधेन निरुद्धा: स्त्राभीप्सित
साधनव्यापारान्निवर्तन्ते । ततश्च तेषां मनोरथा: "उत्पद्यन्ते
विलीयन्ते दरिद्राणां मनोरथाः” इति न्यायेन केवलं मनोमोदक-
सदृशा एव भवन्ति ।
,
द्वितीयास्तु स्वाभीष्टेष्वर्थेषु स्थिर निश्चया: साहसोत्साह-
मूर्त्तयो यदपि वाञ्छन्ति बद्धपरिक रास्तदर्थ प्रयतमाना भवन्ति ।
नैवेह त्रिलोक्यां महान्ति कष्टानि, कृच्छ्राणि तपांसि, अन्यानि
वा कारागारपातनप्रभृतीनि दुःखानि स्वीयव्यापारान्निवर्तयितु
तान् प्रभवन्ति । तानेतान् द्वितीयविधानेव मानवोत्तमानभिलक्ष्य
कविकुलगुरोः कालिदासस्य सुभाषितमिदम् -
-
क ईप्सितार्थस्थिर निश्चयमित्यादि ।
अस्यार्थ: । वाञ्छितार्थसम्पादने दृढनिश्चयं मनः निम्न-
स्थलप्रवृत्तं च सलिलं कः प्रतीपयेदिति । अयं भावः । यथाध:-
1.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/८४&oldid=355382" इत्यस्माद् प्रतिप्राप्तम्