पृष्ठम्:Prabandhaprakasha.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
सिद्धिः स धर्म:" इति। नैवास्त्यन्यत्किञ्चिजू जीवलोके यदेतादृशं
सुखसाधनं भवेत् । उक्त प्रमाणादेवैतदर्थादापद्यते यद्धर्माचरणं
नावश्य' सांसारिकैश्वर्यविरोध्येव । आपाततः समीक्षण एवा-
धर्माचरणं तत्साधनं प्रतीयते । वस्तुतस्तु “नाधर्मशिचरमृद्धये"
नाधर्मश्चरितो लोके सद्यः फलति गौरिव 1
शनैरावत मानस्तु कतुर्मूलानि कृन्तति ||
धर्मेधते तावत्ततो भद्राणि पश्यति ।
ततः सपत्नाञ्जयति समूलस्तु विनश्यति ||
इत्यादिप्रमाणानुरूपं किश्चित्कालपर्यन्त सुखसाधनत्वेन प्रतीय-
- मानमपि तदन्ततो महते दुःखाय कल्पते । ततश्चैहलौकिक-
पारलौकिक सुखस्य निःश्रेयसस्य च वास्तविकं कारणं धर्म एव ।
नहि धार्मिक अवश्यमेव सांसारिकैश्वर्यविमुखा भवन्ति ।
किन्तु ते सांसारिकैश्वर्य केवलं धर्माचरणस्यैव साधन मिति
मन्यमानाः सततं धर्माविरुद्धाचरणेनैव तदधिगत्यै प्रयतन्ते ।
अत एव धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु धर्मस्य प्राथ-
म्यमभ्युपगम्यते ।
ततश्चैहि कामुध्मिक सुखसाधनं मनुष्यस्य च परम: सखा
यत्खलु धर्मानुष्ठानम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/८३&oldid=355381" इत्यस्माद् प्रतिप्राप्तम्