पृष्ठम्:Prabandhaprakasha.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
तत्र दूरदर्शिनः सन्तः क्षणिकं तात्कालिकं तत्तदिन्द्रियतृ-
तिजन्य सुखं तिरस्कृत्य पारमार्थिकं सुखमेवेप्सन्तस्तदधिगत्यै एव
प्रयत्नपरा भवन्ति । “परोक्षप्रिया हि देवा: प्रत्यक्षद्विषः" इत्या-
दर्शमनुसरन्तस्ते परोक्षं सुखमेव स्वलक्ष्य' मन्यन्ते । मन्दा: पुन:
प्रत्यक्षमेव क्षणिकं सुखमाद्रियन्ते । तदत्रैषा श्रुतिर्भवति-
अन्यच्छेयोऽन्यदुतैव प्रेय-
स्ते उभे नानार्थे पुरुष १७ सिनीतः ।
तयो: श्रेय आददानस्य साधु भवति
हीयतेऽर्थाद्य उ प्रेयो वृणीते ॥
श्रेयश्च प्रेयश्च मनुष्य मेत-
स्तौ सम्परीत्य विविनक्ति धीरः ।
श्रेया हि धोरोऽभि प्रेयसी वृणीते
प्रेयो मन्दो योगक्षेमाद् वृणीते ||
विदुषां हि दृष्टौ नहि सांसारिक वस्तुषु वास्तविकं महत्त्वम् ।
किन्तु श्रात्मकल्याण साधने धर्माचरण एव । तथा च एव हि
दृश्यते । लोक ये धनसम्पन्नास्ते सन्तत्यभावेन दुःखिनः, ये
सन्ततिमन्तो धनविरहेण ते दुःखिताः । सतोरव्येनयो: प्रतिष्ठा
विहीना: कंचित्संतप्ताः । सद्भावेऽप्येतेषां यदि नास्त्यारोग्य
तदापि दुःखमेव । एवमेव लोक जना भ्रान्त्यान्यान्यपि सुख-
साधनानि मन्यन्ते । वास्तविकं तु सुखसाधनं धर्म एव ।
धर्मे सुखमेधते धर्म एवेहामुत्र चाभ्युदयनिःश्रेयस सि.
दूध्यै प्रभवति । तथा च काणादं सूत्रम् – “यतोऽभ्युदयनिःश्रेयस


७४
www
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/८२&oldid=355380" इत्यस्माद् प्रतिप्राप्तम्