पृष्ठम्:Prabandhaprakasha.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३
भवितु शक्नोति । सत्यप्येवं साधारणा: पामरा मानवाः
पशुनिर्विशिष्टा एव निजव्यवहारेषु । केचिदेव बुद्धिमन्तः
वाताम्र विभ्रम मिदं वसुधाधिपत्य
प्रबन्धप्रकाश:
मापातमात्रमधुरो विषयोपभोगः ।
प्राण। स्तृणाम्रजलबिन्दुसमा नराणां
धर्मः सखा परमही परलोकयाने ||
इत्यादि स्मरन्तोऽस्थिरं तत्तदिन्द्रियतृप्तिजन्य सुखमनपेक्ष्य
स्थिरमात्मकल्याणरूपं सुखमपेक्षन्ते । तादृशमेव सुख शान्ति-
रानन्द: श्रेय इत्यादिशब्दैर्व्यवह्नियते ।
स खलु धर्मो द्विविधः - वास्तविक स्तरसाधन रूपश्च । तत्र
वास्तविकः सर्वकालेषु सर्वदेशेषु च समान: । द्वितीय: पुनस्त
त्तदशकालायुपाधिभेदेन भियते । तत्र धृतिः क्षमा शमा दान-
महिंसा सत्यमित्यादिरूपो धर्मः प्रथमकक्षामवगाहते । द्विती
यस्तु तत्तत्सम्प्रदायगतः परम्परागतः कर्मकाण्डरूपः । यथा
तत्तत्प्रकारेण सम्ध्याविधिः, तत्तत्तीर्थयात्रा इत्यादि ।
-
प्रायश: सांसारिकक्षणिक सुखानुरक्तानामेव प्रतीयते यद्ध-
मचरणमतीव क्लेशसाध्य भवति । 'यत्तदमे विषमिव परि
ग्रामेऽमृतोपमम्” इति न्यायेन धर्माचरणे ह्यादावतीव कष्टमनु-
भूयते । अधर्माचरणे स्वेतत्प्रतिकूलैव वार्ता । स्वाभाविकं चै
तत् । उच्च प्रदेशाधिरोहणमिव नानाजन्मागतनीच प्रवृत्तीरुत्सृज्य
स्वाराज्यरूपोच प्रदेशाधिरोहणं दुःखकरमेव प्रतीयते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/८१&oldid=355379" इत्यस्माद् प्रतिप्राप्तम्