पृष्ठम्:Prabandhaprakasha.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२
प्रबन्धप्रकाशः
धर्मः

इह संसारे समस्तदेहिवर्गाणामेवेय' नैसर्गिकी लालसाव-
लोक्यते यत्कथमपि सुखाधिगतिर्भवेत् । तथा हि तेषां सर्वेऽपि
यत्ना: साक्षादसाक्षाद्वा तस्यैव लाभाय भवन्ति । सुखाभिलाषे
गौव केचिन्मानवा धनोपार्जनमेव तत्साधनं मन्यमानास्तदासा-
दनार्थ प्रयतन्ते । सर्व प्रकार कैन्टयैरन्याय्यैर्वा साधनैः
सुखमासिसादयिषवा हि ते परधनहरणाद्यपि नानुचितं मन्यन्ते ।
अन्ये पुनरपत्यमेव सुखसाधनं मन्यमानाः सर्वथा धनैरापूर्णेऽपि
गृहे तदभावाहुःखं दुःखमित्येवाक्रन्दन्ति सुबहुशो दिवानिशम् ।
अपरे पुन: सत्यामपि पुत्रादिसन्तती प्रतिष्ठाकामुका घनिनो
धनधान्य तदधिगत्यै तृणाय मन्यन्ते । एवं नानाविधप्रयत्न-
परा मनुजा: प्राप्तेष्वपि तत्तद्रस्तुषु शान्तिमप्राप्य 'प्रशान्तस्य
कुतः सुखम्' इति न्यायेन स्थिरं सुखमनधिगत्यैव तिष्ठन्ति ।
तत्र किं परमार्थतः सुखसाधन मिति विचिकित्सायामेवमेव
समाहित मनीषिभिर्यद्धर्म एव तत्साधनमिति ।
८६
-
धर्मो हि नाम तत्तदिन्द्रिय विषयप्राप्तिजन्यां क्षणिक सन्तु-
ष्टिमनपेदय वस्तुतात्मकल्याण साधनस्याचरणमिति ।
एष एव पशुमनुष्ययोर्भेदा यत्पशवस्तत्तदिन्द्रियवशानुगा
हि प्रतिक्षणं व्यवहरन्ति । मनुष्य: पुनस्तात्कालिकसुखाभि-
लाषमनादृत्य आत्मकल्याणरूपं स्थायि सुखमपेक्ष्यापि कर्मपरा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/८०&oldid=355378" इत्यस्माद् प्रतिप्राप्तम्