पृष्ठम्:Prabandhaprakasha.pdf/७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
यूरोपीयमहायुद्धावसरे फ़्रांसादिदेशेष्वनेकेषां देशद्रोहियामेता-
दृशान्युदाहरणानि ।
-
अहो क्षुधातुराणां मानावमानविचारोऽपि दूरत एव
धावति । यं खलु मानं "सतां माने म्लाने मरणमथवा दूरगम-
नम्" — तथा हि
न्यक्कारमुदरभरणे लब्ध्वा राहुर्जहावुदरमेव ।
इच्छति मानी मरां न च गच्छति वैरिणः शरणम् ||
- इत्येवं बहुधाभिष्टुवन्ति सन्तः, तमपि मानं विसृज्य क्षुत्क्षा-
मकण्ठो मानमहतामग्र सरोऽपि मानधन इमामुदरदरी
कष्टात्कष्टतरं किं परगृहवास: परान्नं च |
इत्याद्युक्त्यनुसारं नितरामवज्ञाहेतुपरान्नयाचनरूपभिक्षाका-
रणत्वेन मानभङ्गभूमिं पूरयितुं क्षुद्राणामविवेक मूढमनसामीश्व-
राणां वित्तव्याध्यविवेक संकुलगिर: शृण्वन् द्वारं द्वारमटन
परसदननिविष्ट: को लघुत्वं न याति ।:
इत्यादिवचेोऽनुरूपमवज्ञाभाजनं भवति । सर्वमेतदेतस्य पापी
यसो जठरस्य लीलायितम् । तथा
च महामतेर्भतृहर:
किञ्चित्परिवर्तितं पद्यम् -
दीनादीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरां
कोशद्भिः क्षुधितैर्निरन्न विधुरां दृष्ट्वा निजां गेहिनीम् ।
याच्ञाभङ्गभयेन गद्गदगलट्यद्विलीनाक्षरं
को देहीति वदेन दग्धजठरस्यार्थे प्रभूणांपुरः ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/७८&oldid=355376" इत्यस्माद् प्रतिप्राप्तम्