पृष्ठम्:Prabandhaprakasha.pdf/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८
प्रबन्धप्रकाश:
इति विमृशन्तो देवानुपासते । परं कस्तादृशो यो जन्मा-
साद्य जठरवश्यो न भवेत् ।
जन्मारभ्य मरणपर्यन्तं न केवलं प्रतिदिनं किन्तु प्रतिक्षण-
मस्य प्रभाव: केन नानुभूयते, महिमा वा यदि न शब्दद्वारा तर्हि
व्यवहारद्वारा केन न गीयते । वस्तुत एतदभावे संसारस्थिति-
रेव सुदुर्लभा । ततश्च विचित्रा हि वाङ्मनसयोरगोचरीभूता
मायैतस्य, जिह्वासाहस्रयपि यां वर्णयितुमशक्ता । एवं च सति
सिन्धुराननादीनां देवानां माहात्म्यवर्णनपरेषु पर: शतेषु स्तोत्र-
कदम्बकंषु विद्यमानेषु महामहिम्नो लोकानखिलानवाप्तवतो जट-
रस्य स्तोत्राथामभावो नूनमेतस्य गुणगौरवपरम्परामपारयता
वर्णयितुं कविमण्डलस्यैव धीमान्द्यप्रख्यापक इति मन्यामहे ।
एवं चातिप्रभाववदतिमहत्त्वयुक्तं चैतदुदरम् । एतद्धेतुका
एव हि सर्वे लौकिका व्यवहाराः ।
तथा च लौकिकानामा-
भायक: – “सर्वारम्भास्तण्डुलप्रस्थमूला:” इति । किंबहुना,
सम्पत्तिशास्त्रस्य मूलभित्तिरुदरपूरणचिन्तैव । धर्मादिपुरुषार्थ-
चतुष्टयावाप्ते मुख्य साधनस्य शरीरस्य च धारणकारणमुदरमेव ।
-
परमेष महान्प्रभावो महिमा चोदरस्य न केवलं गुणपन्त
एव किन्तु तदितरपक्षेऽपि दृश्यते । स्वभाव एवैष परमेश्वरसृष्टी
प्रायः सर्वेषां पदार्थानां विशेषतश्चातिमहत्वयुक्तानां यत्तेषां
प्रभावो न केवलं प्राणिनामभिमतानां प्रियाणां चार्थानां
साधनत्वेनैव दृश्यते किन्तु नैककारणवशात्प्रायस्तत्प्रतिकूल-
रूपत्वेनाप्यनुभूयते । एतन्नियमानुसारेणैव संसारस्थिते: प्रधान-
-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/७६&oldid=355374" इत्यस्माद् प्रतिप्राप्तम्