पृष्ठम्:Prabandhaprakasha.pdf/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६
प्रबन्धप्रकाश:
इयमुदरदरी दुरन्तपूरा
यदि न भवेदभिमानभङ्गभूमिः ।
कथमपि न सहे भवादृशानां
कुटिलकटाक्षनिरीक्षणं नृपाणाम् ||
"माने भग्ने कुतः सुखम्" इत्यादर्शमनुसरत:
अपहरति महत्त्व प्रार्थना किं न जाने
जनयति गुरुलज्जामित्यहं किं न वेद्मि
तदपि वद वदान्यं तं सदा प्रत्यहं मां
जठरपिठरवर्ती वह्निरर्थीकरोति ||
इत्युक्त्यनुसारं दुर्भरोदरपूरणार्थमभिमानिनां प्रभृण सेवया
जीवनवृत्तेरुपार्जने कदर्घनामनुभवतः
सर्वमेतदुदरहेतुक-
मिति चावगच्छतः कस्यचिन्मानधनस्य मनस्विनः सोपालम्भमु-
दरमहिमवर्णनपरोक्तिरियम् -
-
.
इयमुदरदरी दुरन्तपूरेत्यादि ।
तदत्रास्योदरस्य कीदृशं महत्त्वम्, कियांश्च प्रभावः, कथं
च तत्पूरणार्थ मनुजा कर्तव्याकर्तव्यचिन्तामुत्सृज्य परवशा
इव जगति नानाविधव्यापारेषु प्रवृत्ता भवन्तीत्ये वाघस्तात्सवि
शदं प्रतिपाद्यते । तथाहि --
4*
एतत्खलु त्रिभुवनप्रभवेणानन्तलीलानिलयेन भगवता परमे
ष्ठिना सृष्टं विविधकुतूहलाकुलमद्भुतं विशाल जगद्वीचमाणानां

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/७४&oldid=355372" इत्यस्माद् प्रतिप्राप्तम्