पृष्ठम्:Prabandhaprakasha.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
शास्ता गुरुश्च मम दैवतमेव च त्वं
मूर्ध्ना वचस्यहममूनि तबार्चयामि ।
भोदये न चैव सुतसोम मनुष्यमांसं
यन्मां यथा वदसि तच्च तथा करिष्ये ॥
नृपात्मजा यज्ञनिमित्तमाहता
मया च ये बन्धनखेदपीडिता:
हतत्विष: शोकपरीतमानसा-
स्तदेहि मुञ्चाव सहैव तानपि ॥
अथ बोधिसत्त्वस्तथेत्यस्मै प्रतिश्रुत्य यत्र ते नृपसुतास्तेना-
वरुद्धास्तत्रैवाभिजगाम । दृष्ट व च ते नृपसुताः सुतसोमं हन्त
मुक्ता वयमिति परं हर्षमुपजग्मुः । अथैनानभिगम्य बोधिसत्त्व :
समाश्वासयन्प्रियवचनपुरःसरं च प्रतिसम्मेोद्य सौदासस्याद्रो-
हाय शपथं कारयित्वा बन्धनाद्विमुच्य सार्व सौदासेन तैश्च
नृपतिपुत्रैरनुगम्यमानः स्वं राज्यमुपेत्य यथार्हकृतसंस्कारांस्तान्
राजपुत्रान्सौदासं च स्वेषु स्वेषु राज्येषु प्रतिष्ठापयामास |
तदेवं श्रेयः समाधत्ते यथातथा दुपेनतः सत्सङ्गम इति
श्रेयोऽर्थना सज्जनसमाश्रयेण भवितव्यम् ।
[
चितजातकमालायाः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/७३&oldid=355371" इत्यस्माद् प्रतिप्राप्तम्