पृष्ठम्:Prabandhaprakasha.pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
सौदास उवाच-
त्यक्त्व राजगे क्लेशो यस्य हेतोघृतो मया ।
हतो धर्म: क्षता कीर्तिस्त्यक्ष्यामि तदहं कथम् ||
बोधिसत्व उवाच । अत एव तद्भवस्यक्तुमर्हति ।
धर्मादर्थात् सुखात्कीर्तेभ्रष्टो यस्य कृते भवान् |
अर्थानं ताक् कथं न त्यक्तुमर्हसि ॥
तदलं ते पाप्मानमेवानुभ्रमितुम् । अवबोद्धुमर्हस्यात्मानम् |
सौदास : खल्वत्र भवान् ।
चित्तस्य नार्हसि नरेन्द्र ! वशेन गन्तु
धर्मार्थयोरनुपरोधपथं भजस्व ।
एको नृपान्युधि विजित्य समस्तसैन्यान्
मा चित्तविग्रह विधौ परिकातरो भूः ॥
लोक: परोऽपि मनुजाधिप ! नन्ववेदय-
स्तस्मात्प्रियं यदहितं च न तन्निषेव्यम् ।
यत्स्यात्तु कीर्त्यनुपरोधि मनोज्ञमार्ग


तद्विप्रिय सदपि भेषजवद्भजस्व ||
अथ सौदास: प्रसादाश्रव्याप्तनयना गद्गदायमानकण्ठः
समभिसृत्यैव बोधिसत्त्वं पादयोः सम्परिष्वज्योवाच ।
गुगणकुसुमरजोभि: पुण्यगन्धैः समन्ता-
ज्जगदिदमवकीर्ण कारणे त्वद्यशोभिः ।
इति विचरति पापे मृत्युदूत प्रवृत्तौ
त्वमिव हि क इवान्यः सानुकम्पो मयि स्यात् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/७२&oldid=355370" इत्यस्माद् प्रतिप्राप्तम्