पृष्ठम्:Prabandhaprakasha.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
अथेनं बोधिसत्त्व: सविस्मयबहुमान उवाच । कस्त्वं वर-
प्रदानस्य ।
यस्यास्ति नात्मन्यपि ते प्रभुत्वमकार्यसंरागपराजितस्य ।
स त्वं वरं दास्यसि कं परस्मै शुभप्रवृत्तेरपवृत्तभावः ॥
अथ सौदासः किञ्चिद्व्रीडावनतवदनो बोधिसत्त्वमुवाच ।
अलमत्रभवतो मामेवं विशङ्क्तिम् ।
प्राणानपि परित्यज्य दास्यामि तानहं वरान् ।
विस्रब्धं तद् वृणीष्व त्वं यद्यदिच्छसि भूमिप ! ॥
बोधिसत्त्व उवाच । तेन हि
सत्यव्रतो भव विसर्जय सत्वहिंसां
बन्दोकृतं जनमशेषमिमं विमुध्य ।
अद्यान चैव नरवीर मनुष्यमांस-
मेतान्वराननवरांश्चतुरः प्रयच्छ ।
सौदास उवाघ -
ददामि पूर्वान्भवते वरांत्रोनन्य चतुर्थ तु वरं वृणीष्व |
अवैषिकिं न त्वमिदं यथाहमीशो विरन्तु न मनुष्यमांसात् ||
बोधिसत्व उवाच । हन्त तवैतत्संवृत्तम् । ननूक्तं मया
कस्त्वं वरप्रदानस्येति । अपि च भेोः
सत्यत्रतत्वं च कथं स्यादहिंसकता च ते ।
अपरित्यजतो राजन्मनुष्य पिशिताशिताम् ॥
आह । ननुक्क भवता पूर्व दास्याम्येतानहं बराम् ।
प्राणानपि परित्यज्य तदिदं जायतेऽन्यथा ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/७१&oldid=355369" इत्यस्माद् प्रतिप्राप्तम्