पृष्ठम्:Prabandhaprakasha.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
स्पृशन्त्ययत्नेन हि तत्समीपगं
विसर्पिणस्तद्वगुणपुष्परेवः || २ ||
सौदास उवाच ।
सुभाषितान्यर्चयता साधो ! सर्वात्मना त्वया ।
स्थाने खलु नियुक्तोऽर्थ: स्थाने नावेक्षितः श्रमः ॥
ततस्ततः । बोधिसत्त्व उवाच -
रथा नृपाणां मणिहेमभूषणा
व्रजन्ति देहाश्च जराविरूपताम् ।
सतां तु धर्मं न जराभिवर्तते
स्थिरानुरागा हि गुणेषु साधवः ॥ ३ ॥
( सौदास उवाच ) अमृतवर्ष खल्विदम् | अहो सन्त-
र्पिता: स्म: । ततस्ततः ।
बोधिसत्व उवाच-
नभश्च दूरे वसुधातलाच
पारादवारं च महार्णवस्य ।
अस्ताचलेन्द्रादुदयस्ततोऽपि
धर्मः सतां दूरतरेऽसतां च ॥ ४ ॥
अथ सौदास: प्रसाद विस्मयाभ्यामावर्जितप्रेमबहुमाना
बोधिसत्त्वमुवाच ।
coop
चित्राभिधानातिशयोज्ज्वलार्था गाथास्त्वदेता मधुरा निशम्य ।
आनन्दितस्तत्प्रतिपूजनार्थ वरानहं ते चतुरो ददामि ||
तद् वृणीष्व यद्यन्मत्तोऽभिकाङ्क्षसीति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/७०&oldid=355368" इत्यस्माद् प्रतिप्राप्तम्