पृष्ठम्:Prabandhaprakasha.pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
बोधिसत्व उवाच-
न प्राणान्पितरौ न चैव तनयान्बन्धून दारान्न च
नैवैश्वर्यसुखानि संस्मृतवतो बाष्पोद्गमोऽयं मम ।
आशावांस्तु सुभाषितैरभिगतः श्रुत्वा हृतं मां द्विजो
नैराश्येन स दह्यतेघ्र वमिति स्मृत्वास्मि सास्रोक्षणः ॥
तस्माद्विसर्जयितुमर्हसि तस्य याव
दाशाविधात मथितं हृदयं द्विजस्य ।
संमाननाम्बुपरिषेक नवी करेरामि
-
५३
तस्मात्सुभाषितमधूनि च सम्बिभर्मि ||
प्राप्यैवमानृण्यमहं द्विजस्य गन्तास्मि भूयोऽनृणतां तवापि ।
इहागमात् प्रीतिकृतक्षणाभ्यां निरीक्ष्यमाणो भवदीक्षणाभ्याम् ॥
सौदास उवाच-
इदं त्वया ह्याद्दतमुच्यमानं श्रद्धेयतां नैव कथंचिदेति ।
को नाम मृत्योर्वदनाद्विमुक्त: स्वस्थ स्थितस्तत्पुनरभ्युपेयात् ॥
दुरुत्तरं मृत्युभयं व्यतीत्य सुखे स्थितः श्रीमति वेश्मनि स्वे ।
किं नाम तत्कारणमस्ति येन त्वं मत्समीपं पुनरभ्युपेयाः ॥
बोधिसत्व उवाच
कथमेवं महदपि समागमनकारण-
मन्त्रभवान्नावबुध्यते ।
ननु मया प्रतिपन्न मागमिष्यामीति |
नदलं मां खलजनसमतयैवं परिशङ्किनुम् । सुतसोम: खल्वहम् ।
लोभेन मृत्योश्च भयेन सत्यं सत्यं यदेके तृणवत्यजन्ति ।
सतां तु सत्यं वसु जीवितं च कृच्छ्रोऽप्यतस्तन्न परित्यजन्ति ॥
१ क्षण उत्सवः ।
.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/६१&oldid=355359" इत्यस्माद् प्रतिप्राप्तम्