पृष्ठम्:Prabandhaprakasha.pdf/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
त्वत्तो भय' यदि च नाम ममाभविष्यत्
सङ्गः सुखेषु करुणाविकलं मनो वा ।
विख्यातरौद्रचरितं ननु वीरमानी
त्वामुद्यतप्रहरणावरणोऽभ्युपैष्यम् ||
त्वत्संस्तवस् त्वयमभीप्सित एव मे स्यात्
तस्य द्विजस्य सफलश्रमतां विधाय ।
एण्याम्यहं पुनरपि स्वयमन्तिकं ते
नास्मद्विधा हि वितथां गिरमुगिरन्ति ॥
अथ सौदासस्तद्द्बोधिसत्ववचनं विकल्पितमिवामृष्यमाण.
श्चिन्तामापेदे | सुष्ठु खल्वयं सत्यवादितया च धार्मिकतया च
विकत्थते । तत्पश्यामि तावदस्य सत्यानुरागं धर्मप्रियतां च ।
किं च तावन्ममानेन नष्टेनापि स्यात् । अस्ति हि मे स्वभुज-
वीर्यप्रतापाद्वशीकृतं शतमात्रं क्षत्रियकुमाराणाम् । तैर्यथोपया-
चित' भूतयज्ञं करिष्यामीति विचिन्त्य बोधिसत्वमुवाच । तेन
हि गच्छ | ह्रदयामस्ते सत्यप्रतिज्ञतां धार्मिकतां च ।

गत्वा कृत्वा च तस्य त्व' द्विजस्य यदभीप्सितम् ।
शीघ्रमायाहि यावत्ते चितां सज्जीकरोम्यहम् ॥
अथ बोधिसत्रस्तथेत्यस्मै प्रतिश्रुत्य स्वभवनमभिगतः
प्रतिनन्द्यमानः स्वेन जनेन तमाहूय ब्राह्मणं तस्माद् गाथाचतुष्टय
शुश्राव । तच्छुत्वा सुभाषिताभिप्रसादितमना: स महासत्त्व:
१ संस्तवः परिचयः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/६२&oldid=355360" इत्यस्माद् प्रतिप्राप्तम्