पृष्ठम्:Prabandhaprakasha.pdf/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२
प्रबन्धप्रकाश:
समवतार्य च तत्र बोधिसत्त्वं तद्र पसम्पदा विनिबध्यमाननयन:
प्रतत वीक्षमाणा विशश्राम ।
सत्कारं
अथ बोधिसत्त्वस्य सुभाषितापायनाभिगत ब्राह्मणमकृत-
तदुद्यानविनिवर्तनप्रतीक्षिण माशावबद्धहृदयमनुस्मृत्य
चिन्ता प्रादुरभूत् । कष्ट भोः !
सुभाषितापायनवानाशया दूरमागतः ।
स मां हृतमुपश्रुत्य विप्रः किं नु करिष्यति ||
इति विचिन्तयतस्तस्य महासत्त्वस्य तदीय दुःखाभितप्तमनसः
कारुण्यपरिचयादश्रण प्रावर्तन्त ।
अथ सौदासः साश्रुनयनमभिवीदय बोधिसत्त्वं समभिप्रह-
सन्नुवाच । मा तावद्भोः !
धीर इत्यसि विख्यातस्तैस्तैश्च बहुभिगुणैः ।
अथ चास्मद्वशं प्राप्य त्वमप्यश्रण मुध्यसि ॥
सुष्ठु खल्विदमुच्यते-
सुविफलं धैर्य शोके श्रुतमपार्थकम् |
नहि तद्विद्यते भूतमाहतं यन्न कम्पते ।।
इति । तत्सत्यं तावद् ब्रहि-
--
प्राणान्प्रियानथ धनं सुखसाधनं वा
बन्धून्नराधिपतितामथवानुशोचन |
पुत्रप्रियं पितरमश्रुमुखान् सुतान्वा
स्मृत्वेति साश्रुनयनत्वमुपागतोऽसि ||

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/६०&oldid=355358" इत्यस्माद् प्रतिप्राप्तम्