पृष्ठम्:Prabandhaprakasha.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१
गत्वापि यो नाम मयानुकम्प्यो मद्गोचरं स स्वयमभ्युपेतः ।
युक्तं मयातिथ्यमतोऽस्य कर्तुमेवं हि सन्तोऽतिथिषु प्रवृत्ताः ॥
तद्यथाधिकारमत्रावहिता भवन्तु भवन्त इति स तानन्तःपुरा-
बचराननुशिष्य, श्राश्वासनपूर्वकं विनिवर्त्य युवतिजनं, यतस्त-
त्कोलाहलं ततः प्रससार । दृष्टव च व्यायताबद्धमलिनवसन-
परिकरं वल्कल पट्ट विनियतं रेणुपरुषप्रलम्बव्याकुल शिरोरुहं प्ररूढ-
श्मश्रुजालावनद्धान्धकारवदनं रोषसंरम्भव्यावृत्तरौद्रनयनमुद्य-
तासिचर्माणं सौदासं विद्रवदनुपतन्तं राजबलं' विगतभयसाध्वस:
समाजुहाव । अयमहमरे सुतसोमः । इत एव निवर्तस्व ।
किमनेन कृपणजनकदनकरणप्रसङ्गेनेति ।
प्रबन्धप्रकाशः
तत्समाहानशब्दाकलितदर्पस्तु सौदास: सिंह इव ततो
न्यवर्तत । निरावरणप्रहरणमेकाकिनं प्रकृति सौम्यदर्शनमभिवीक्ष्य
च बोधिसत्त्वमहमपि त्वामेव मृगयामीत्युक्ता निर्विशङ्कः
सहसा संरम्भद्रुततरमभिसृत्यैनं स्कन्धमारोप्य प्रदुद्राव । बोधि
सत्त्वोऽपि चैन संरम्भदपद्धतमानसं ससम्भ्रमाकुलितमति राज-
बलविद्रावणापरूढ प्रहर्षावलेपमवेत्य नायमस्यानुशिष्टिकाल इत्यु-
पेक्षां चक्रे | सौदासोऽप्यभिमतार्थ प्रसिद्धया परमिव लाभम
धिगम्य प्रमुदितमनाः स्वमावासदुर्ग प्रविवेश |
हतपुरुषकलेवराकुलं रुधिरसमुक्षितरौद्रभूतलम् |
परुषमिव रुषावभर्त्सयत्स्फुटद हनैर शिवैः शिवारुतैः ||
१ विद्रवद्राजबलमनुपतन्तं सौदास दृष्ट्वैवति संबन्धः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/५९&oldid=355357" इत्यस्माद् प्रतिप्राप्तम्