पृष्ठम्:Prabandhaprakasha.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
सत्सङ्गतिः
सत्सङ्गतिः कथय किं न करोति पुसाम् ।
श्रेय: समाधत्ते यथातथाप्युपनतः सत्सङ्गम इति सज्जना-
पाश्रयेण श्रेयोऽर्थना भवितव्यम् ।
४८
तद्यथानुश्रूयते । बोधिसत्वभूतः किलायं भगवान्यश:-
प्रकाशवंशे गुणपरिग्रहप्रसङ्गा'त्सात्मीभूतप्रजानुरागे प्रतापानत-
हप्तसामन्ते श्रीमति कौरव्यराजकुले जन्म प्रतिलेभं । तस्य
गुणशत किरणमालिन: सोमप्रियदर्शनस्य सुतस्य सुतसोम इत्येव
पिता नाम चक्रे | स शुक्लपक्षचन्द्रमा इव प्रतिदिनमभिवर्धमा
नकान्तिलावण्यः, कालक्रमादवाप्य साङ्गेषु सोपवेदेषु च वेदेषु
वैचक्षण्य, दृष्टक्रम: सोत्तरकलानां कलानां लोक्यानां, लोक-
प्रेमबहुमान निकेतभूतः सम्यगभ्युपपत्ति सौमुख्यादभिवर्धमाना-
दरात परिपालननियमाञ्च बन्धुरिव गुणानां बभूव ।
प्रतश्चैन स राजा लोकपरिपालनसामर्थ्यादक्षुद्र भद्रप्रकृति-
त्वाच यौवराज्यविभूत्या संयोजयामास ।

विद्वत्तया त्वासु रतीव तस्य प्रियाणि धर्म्याणि सुभाषितानि ।
आर्च पूजातिशयैरतस्त सुभाषितैरेनमुपागमद्यः ॥
अथ कदाचित्स महात्मा कुसुममासप्रभावविरचित कि-
सलयलक्ष्मीमाधुर्याणि प्रविकसत्कुसुममनोज्ञप्रहसितानि प्रवि
ततनवशाइलकुथास्तरणसनाथघरगीतलानि कमलोत्पलदला-
-
१ प्रसङ्गः प्रसत्ति 1 २ लाक्यानां लौकिकानाम् | ३ अभ्युपप-
४ सुरिति बभूवुरित्यर्थे तिङन्तप्रतिरूपकमव्ययम् ।
त्तिरनुग्रहः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/५६&oldid=355354" इत्यस्माद् प्रतिप्राप्तम्