पृष्ठम्:Prabandhaprakasha.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
एवमुक्तवत्येव भवदेवे नागिला एतद्याजेनैवोपदेशावर
मन्यमानावोचत् । देव ! कि तथ्यमेवमेव मन्यसे । आहो-
स्विसे परोपदेश एव पाण्डित्यम् । कि पर्वते ज्वलन्तमग्निं
पश्यसि न पुनरचणोः पुरस्तात्स्थितम् । यस्माद् बालन्तूप-
दिशति भवान् यदेकवारं त्यक्तं नैवादत्ते विद्वान् परं पूर्व
वर्जितां मां पुनर्ग्रहीतुकामोऽस्ति ! सत्य सुखमुपदिश्यते परस्य !
था कि नात्रैतत्सुभाषित' चरितार्थ भवति–
-
का हि पुङ्गणना तेषां येऽन्य शिक्षाविचक्षणा: ।
ये म्वं शिक्षयितु दक्षास्तेषा पुङ्गणना नृणाम् ॥ इति ॥
अयं भावः ।
स्वभावेन परोपदेशकुशला एव बहुशो मानवा: समा-
लोच्यन्ते संसारे । नाममात्रेगाँव ते मानवा: । उपदेशानुगुगां
स्वयमाचारमनाचरतां तेषामेतादृशं परोपदेशपाण्डित्यं केवलं
वाचालत्वमेव ख्योपयति । स्वयमाचारविहीनानां तेषामुप-
देशोऽपि नहि परान् सदाचारमार्गावलम्बिन: सम्पादयितु
प्रभवति । ये पुनः प्रथममात्मानं शिक्षयन्ति, पश्चात्तु निजानु-
भवेन सत्यानृते विविध्य करुणाप्लावितचेतसः परानप्युपदिशन्ति
धर्म त एव धन्याः सर्वजगत्पूजास्पदीभूता मानवजन्म सार्थ-
कतां नयन्ति ! अत एवाच्यते-
परोपदेशे पाण्डित्य सर्वेषां सुकरं नृणाम् ।
धर्म स्वयमनुष्ठानं कस्यचित्तु महात्मनः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/५५&oldid=355353" इत्यस्माद् प्रतिप्राप्तम्